SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४६० एकविंशतितमं पर्व। कष्टं नेच्छंति केचित्सुकृतपरिचयं कर्तुमन्यस्तु कश्चित् । कृत्वा मोहावसानं रविरिव विमलं केवलज्ञानमेति ॥ २५० ॥ इत्यर्षे रविषेणाचार्यप्रोक्त पद्मचरिते तीर्थंकरादिभवानुकीर्तनं नाम विंशतितमं पर्व । एकविंशतितमं पर्व। श्रृण्वतोऽष्टमगमस्य संबंधार्थ वदामि ते । वंशानुकीर्तनं किंचिन्महापुरुषसंभवं ॥१॥ जिनेंद्रे दशमे नीते राजासीत्सुमुखश्रुतिः । कौशांब्यामपरोऽत्रैव वणिजो वीरकश्रुतिः ॥ २ ॥ हृत्वा तद्दयितां राजा श्रित्वा काम यथेप्सितं । दत्वा दानं विरागाणां पुरे हरिपुरसंज्ञके ॥३॥ उत्पन्नौ दंपती क्रीडां कृत्वा रुक्मगिरिं ययौ । तत्रापि दक्षिणश्रेण्या भोगभूमिमशिश्रियत् ॥४॥ दयिताविरहांगारदग्धदेहस्तु वीरकः । तपसा देवतां प्राप देवीनिवहसंकुलं ॥५॥ विदित्वावधिना देवो वैरिणं हरिसंभवं । भरतेऽतिष्ठपद्यातं दुर्गतिं पापधीरिति ॥ ६ ॥ यतोऽसौ हरितःक्षेत्रादानीतो भार्यया समं । ततो हरिरिति ख्यातिं गतः सर्वत्र विष्टपे ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy