________________
than
पद्मपुराणम् ।
४५९
विंशतितम पर्व। सुवर्णकुंभः सत्कीर्तिः सधर्मोऽथ महामुनिः । मृगांकः श्रुतिकीर्तिश्च सुमित्रो भुवनश्रुतः ॥ २४६॥ सुव्रतश्च सुसिद्धार्था रामाणां गुरवः स्मृताः । तपःसंभारसंजातकीर्तिवेष्टितविष्टपाः ॥ २४७॥
दग्ध्वा कर्मोरुकक्षं क्षुभित बहुविधव्याधिसंभ्रांतसत्त्वं । मृत्युर्व्याघ्रातिभीमं भवविपुलसमं तुंगवृक्षोखंडं ॥ याता निवोणमष्टो हलधरविभवं प्राप्य संविमभावाः। संप्राप ब्रह्मलोकं चरमहलधरः कर्मबंधावशेषात् ॥ २४८ ॥ आदौ कृत्वा जिनेंद्रान् भरतजयकृतान् केशवानां बलानामेतत्ते पूर्वजन्मप्रभृतिनिगदितं वृत्तमत्यंतचित्रं ॥ केचिद्भाम्यंति मोक्षं कृतयुततपसः स्तोकपंकाश्च केचिस्केचिद्गच्छंति भूयो बहुभवगहनां संसृतिं निर्विरामाः ॥ २४९ ॥ एतज्ज्ञात्वा विचित्रं कलिकलुषमहासागरावर्तमग्नं । संसारप्राणजातं विरसगतिमहादुःखवहिप्रतप्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org