________________
पद्मपुराणम् ।
४५८
विंशतितमं पर्व। वसुंधरश्च विज्ञेयः श्रीचंद्रः सखिसंज्ञकः । ज्ञेयान्यमूनि नामानि रामाणां पूर्वजन्मनि ॥ २३३ ॥ अमृतारो मुनिः श्रेष्ठः महासुव्रतसुव्रतौ । वृषभोऽथ प्रजापालस्तथा दमवराभिधः ॥ २३४ ॥ सुधर्मोऽर्णवसंज्ञश्च तथा विद्रुमसंज्ञितः । अमी पूर्वभवे ज्ञेया गुरवः शीरधारिणां ॥ २३५ ।। विवासोऽनुत्तरा ज्ञेयास्त्रयाणां हलधारिणां । सहस्रारस्त्रयाणां च द्वयोर्ब्रह्मनिवासिता ।। २३६ ॥ महाशुक्राभिधानश्च कल्पः परमशोभनः । एभ्यच्युत्वा समुत्पन्ना रामाः साधुसुचेष्टिताः॥२३७॥ भद्रांभोजा सुभद्रा च सुवेषा च सुदर्शना । सुप्रभा विजया चान्या वैजयंती प्रकीर्तिता ॥२३८॥ महाभागा च विज्ञेया महाशीलापराजिता । रोहिणी चेति विज्ञेया जनन्यः शीरधारिणां ।।२३९।। श्रेय आदीन् जिनात् पंच तृपृष्ठाद्या बलानुजाः । क्रमेण पंच वंदंते तत्परावरतः परौ ॥ २४०॥ नमिसुव्रतयोर्मध्ये लक्ष्मणः परिकीर्तितः । वंदको नेमिनाथस्य कृष्णोऽभूदद्भुतक्रियः ।। २४१ ॥ अलकं विजयं ज्ञेयं नंदनं पृथिवीपुरं । तथा हरिपुरं सूर्यसिंहशब्दपरे पुरे ।। २४२ ॥ लंकाराजगृहं चान्यक्रमेण प्रतिचक्रिणां । स्थानान्यमूनि वेदानि दीप्तानि मणिरश्मिभिः ॥२४३॥ अश्वग्रीव इति ख्यातस्तारको मेरकस्तथा । मधुकैटभसंज्ञश्च निशुंभश्च तथा वलिः ।। २४४ ॥ प्रह्लादो दशवक्त्रश्च जरासंधश्च कीर्तितः । क्रमेण वासुदेवानां विज्ञेया प्रतिचक्रिणः ॥ २४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org