________________
पद्मपुराणम्।
विंशतितम पर्व। एतेभ्यः प्रच्युताः संतः प्राप्तपुण्यफलोदयाः । पुण्यावशेष्वतो जाता वासुदेवा नराधिपाः॥२२०॥ पौदनं द्वापुरी हस्तिनगरं तत्पुनः स्मृतं । तथा चक्रपुरं रम्यं कुशाग्रं मिथिलापुरी ॥ २२१ ।। विनीता मथुरा चेति माधवोत्पत्तिभूमयः । समस्तधनसंपूर्णाः सदोत्सवसमाकुलाः ॥ २२२ ॥ आद्यः प्रजापतिज्ञेयो ब्रह्मभूतिरतोऽपरः । रौद्रनादस्तथा सोमः प्रख्यातच शिवाकरः ॥ २२३ ॥ समस्तमूद्धर्थनिनादश्च ख्यातो दशरथस्तथा । वसुदेवश्च कृष्णानां पितरः परिकीर्तिताः ॥२२४॥ आद्या मृगावती ज्ञेया माधवी पृथिवी तथा । सीतांबिका च लक्ष्मीश्च केशिनी कैकयी शुभा ॥ देवकी चरमा ज्ञेया महासौभाग्यसंयुता । उदाररूपसंपन्ना कृष्णानां मातरः स्मृताः ॥ २२६ ॥ सुप्रभा प्रथमा देवी रूपिणी प्रभवा परा । मनोहरा सुनेत्रा च तथा विमलसुंदरी ॥ २२७ ॥ तथानंदवती ज्ञेया कीर्तिता च प्रभावती । रुक्मिणी चेति कृष्णानां महादेव्यः प्रकीर्तिताः २२८ प्रकांडपांडुरोगारा नगरी पुंडरीकिनी । पृथिवीवसुविस्तीर्णा द्वितीया पृथिवी पुरी ॥२२९ ॥ अन्यानंदपुरी ज्ञेया तथानंदपुरी स्मृता । पुरी व्यतीतशोकाख्या पुरं विजयसंज्ञितं ॥ २३० ॥ सुसीमा च तथा क्षेमा हास्तिनं च प्रकीर्तितं । एतानि बलदेवानां पुराणि गतजन्मनि ॥२३१॥ बलो मारुतबेगश्च नंदिमित्रो महाबलः । पुरुषर्षभसंज्ञश्च तथा षष्ठः सुदर्शनः ॥ २३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org