SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ पध्मपुराणम् । विंशतितमं पर्व पोदनं शैलनगरं तथा सिंहपुरं पुरं । कौशांबी हास्तिनं चेति क्रमेण परिकीर्तिता ॥२०७ ।। सर्वद्रवणसंपन्ना भयसंपर्कवर्जिता । नगर्यो वासुदेवानामिमाः पूर्वत्र जन्मनि ॥ २०८ ॥ विश्वनंदी महातेजास्ततः पर्वतकाभिधः । धनमित्रस्ततो ज्ञेयस्तृतीयश्चक्रधारिणां ॥ २०९ ॥ ततः सागरदत्ताख्यःक्षुब्धसागरनिस्वनः। विकटः प्रियमित्रश्च तथा मानसचेष्टितः ॥ २१० ॥ पुनर्वसुश्च विज्ञातो गंगदेवश्च कीर्तितः । उक्तान्यमूनि नामानि कृष्णानां पूर्वजन्मनि ॥ २११ ॥ नैविकी यातनं युद्धं विजया प्रमदाहतिः । उद्यानारण्यं भरणं वनक्रीड़ाभिकांक्षिणः ॥ २१२ ॥ अत्यंतविषयासंगो विप्रयोगस्तनूनपात् । दौर्भाग्यं प्रेत्य हेतुभ्य एतेभ्यो हरयोऽभवन् ॥ २१३ ॥ विरूपा दुर्भगाः संतः सनिदानतपोधनाः । तत्त्वविज्ञाननिर्मुक्ता संभवंति बलानुजाः ॥ २१४ ॥ सनिदानं तपस्तस्माद्वर्जनीयं प्रयत्नतः । तद्धि पश्चान्महाघोरदुःखदानसुशिक्षितं ॥ २१५ ।। संभूततपसो मूर्तिः सुभद्रो वसुदर्शनः । श्रेयांसभृतिसंज्ञश्च वसुभूतिश्च कीर्तितः ॥ २१६ ॥ घोषसेनपरांभोधिनामानौ च महामुनी । दुमसेनश्च कृष्णानां गुरवः पूर्वजन्मनि ॥ २१७ ॥ महाशुक्राभिधः कल्पः प्राणतो लांतवस्तथा । सहस्रारे परो ब्रह्मनामा माहेंद्रसंशितः ॥ २१८ ॥ सौधर्मश्च समाख्यातः कल्पः सच्चेष्टितालयः । सनत्कुमारनामा च महाशुक्राभिधोऽपरः ॥२१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy