Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 455
________________ पद्मपुराणम् । विंशतितम पर्व। कोटीकोट्यो दशैतेषां कालो रत्नाकरोपमः । सागरोपमकोटीनां दशकोट्यावसर्पिणी ॥ ७७ ।। उत्सर्पिणी च तावंत्यस्ते सितासितपक्षवत् । सततं परिवर्तेते राजन् कालस्वभावतः ॥ ७८ ॥ प्रत्येकमेतयोर्भेदाः षडुद्दिष्टा महात्मभिः । संसर्गवस्तुवीर्यादिभेदसंभववृत्तयः ॥ ७९ ॥ अत्यंतः सुषमः कालः प्रथमः परिकीर्तितः । कोटीकोट्यश्चतस्रोस्य सामुद्रोन्मानमुच्यते ॥८॥ कीर्तितः सुषमस्तिस्रो द्वयं सुषमदुःषमः । वक्ष्यमाणद्विकालाब्दैरूना दुःषमसत्समः ॥ ८१ ॥ उक्तो वर्षसहस्राणामेकविंशतिमानतः । प्रत्येकं दुःषमोत्यंतदुःषमश्च जिनाधिपैः ॥ ८२॥ पंचाशदधिकोटीनां लक्षाः प्रथममुच्यते । त्रिंशद्दशनवैतासां परिपाट्या जिनांतरं ।। ८३ ॥ नवतिश्च सहस्राणि नव चासां व्यवस्थितः । शतानि च नवैतासां नवतिस्तास्तथा नव ॥८४॥ समुद्रशतहीनैका कोटी दशममंतरं । चतुर्भिः सहिता ज्ञेया पंचाशत्सागरास्ततः ॥ ८५ ॥ त्रिंशन्नवाथ चत्वारः सागराः कीर्तितास्ततः। पल्यभोगत्रयन्यनं ततोरत्नाकरत्रयं ॥८६॥ पल्या शोडशं प्रोक्तं चतुर्भागोऽस्य तत्परं । न्यूनः कोटिसहस्रेण वर्षाणां परिकीर्तितः । ८७॥ समाः कोटिसहस्रं च तत्परं गदितं बुधैः । चतुःपंचाशदाख्यातं समालक्षस्तु तत्परं ॥ ८८ ॥ षड्लक्षा उत्तरं तस्मात्ततः पंच प्रकाशितं । सहस्राणि त्र्यशीतिस्तु सार्धाष्टमशतं परं ।। ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522