Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 462
________________ ४५३ पद्मपुराणम् । विंशतितम पर्व। कुंथ्वरौ परतस्तस्य संजातौ चक्रवर्तिनौ । जिनेंद्रत्वं च संप्राप्तौ पूर्वसंचितकारणौ ॥ १६८ ॥ सनत्कुमारराजोभूद्धर्मशांतिजिनांतरे । निजमेवांतरं ज्ञेयं त्रयाणां जिनचक्रिणां ॥ १६९ ॥ कनकाभ इति ख्यातो नाम्ना धान्यपुरे नृपः । विचित्रगुप्तशिष्यः सन् स जयंतं समाश्रयत् १७० ईशावत्यां नरेंद्रस्य कार्तवीर्यस्य भामिनी । तारेति तनयस्तस्यामभून्नाकादुपागतः ॥ १७१ ॥ सुभूम इति चाख्यातश्चक्रांकायाः श्रियः पतिः । येनेयं शोभना भूमिः कृत्वा परमचेष्टिना १७२ पितुर्यो वधकं युद्धे जामदग्न्यममीमरत् । भुंजानः पायसं पान्या चक्रत्वपरिवृत्तया ॥ १७३ ॥ जामदग्न्याहतक्षात्रदंता एवास्य पायसं । सत्रे किलाश्रतो जाता नैमित्तोक्तं समंततः ॥ १७४ ।। सप्तवारान् कृता क्षत्रारिपूर्णा किल भूरिति । चक्रे त्रिसप्तवारान् यः क्षितिं निष्कंठसूत्रिका १७५ अत्युग्रशासनात्तस्माद्विप्रा प्राप्य महाभयं । कुलेषु रजकादीनां क्षत्रिया इव लिलियरे ॥ १७६ ॥ अरमल्यरे चक्री भोगादविरतात्मकः । कालधर्मेण संयुक्तः सप्तमी क्षितिमाश्रितः ॥ १७७ ।। नगयों वीतशोकायां चिंताहः पार्थिवोऽभवत् । भूत्वा सुप्रभशिष्योसौ ब्रह्माहूं कल्पमाश्रिता१७८ च्युतो नागपुरे पद्मरथस्य धरणीपतेः । मयूर्या तनयो जातो महापद्मः प्रकीर्तितः ॥ १७९ ॥ अष्टौ दुहितरस्तस्य रूपातिशयगर्विताः । नेच्छंति भुवि भर्तारं हृता विद्याधरैरिमा ॥ १८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522