________________
४५३
पद्मपुराणम् ।
विंशतितम पर्व। कुंथ्वरौ परतस्तस्य संजातौ चक्रवर्तिनौ । जिनेंद्रत्वं च संप्राप्तौ पूर्वसंचितकारणौ ॥ १६८ ॥ सनत्कुमारराजोभूद्धर्मशांतिजिनांतरे । निजमेवांतरं ज्ञेयं त्रयाणां जिनचक्रिणां ॥ १६९ ॥ कनकाभ इति ख्यातो नाम्ना धान्यपुरे नृपः । विचित्रगुप्तशिष्यः सन् स जयंतं समाश्रयत् १७० ईशावत्यां नरेंद्रस्य कार्तवीर्यस्य भामिनी । तारेति तनयस्तस्यामभून्नाकादुपागतः ॥ १७१ ॥ सुभूम इति चाख्यातश्चक्रांकायाः श्रियः पतिः । येनेयं शोभना भूमिः कृत्वा परमचेष्टिना १७२ पितुर्यो वधकं युद्धे जामदग्न्यममीमरत् । भुंजानः पायसं पान्या चक्रत्वपरिवृत्तया ॥ १७३ ॥ जामदग्न्याहतक्षात्रदंता एवास्य पायसं । सत्रे किलाश्रतो जाता नैमित्तोक्तं समंततः ॥ १७४ ।। सप्तवारान् कृता क्षत्रारिपूर्णा किल भूरिति । चक्रे त्रिसप्तवारान् यः क्षितिं निष्कंठसूत्रिका १७५ अत्युग्रशासनात्तस्माद्विप्रा प्राप्य महाभयं । कुलेषु रजकादीनां क्षत्रिया इव लिलियरे ॥ १७६ ॥ अरमल्यरे चक्री भोगादविरतात्मकः । कालधर्मेण संयुक्तः सप्तमी क्षितिमाश्रितः ॥ १७७ ।। नगयों वीतशोकायां चिंताहः पार्थिवोऽभवत् । भूत्वा सुप्रभशिष्योसौ ब्रह्माहूं कल्पमाश्रिता१७८ च्युतो नागपुरे पद्मरथस्य धरणीपतेः । मयूर्या तनयो जातो महापद्मः प्रकीर्तितः ॥ १७९ ॥ अष्टौ दुहितरस्तस्य रूपातिशयगर्विताः । नेच्छंति भुवि भर्तारं हृता विद्याधरैरिमा ॥ १८० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org