________________
पद्मपुराणम् ।
४५२
विंशतितमं पर्व ।
कृतश्रमः स तैदृष्टो भूरजोभूसरद्युतिः । गंधामलकपंकेन दिग्धमौलिमहातनुः ॥ १५५ ॥ स्नानैकशाटकः श्रीमान् स्थितः स्नानोचितासने । नानावणेपयःपूर्णकुंभमंडलमध्यगः ॥१५६ ।। उक्तः स तैरहो रूपं साधु शक्रेण वर्णितं । मानुषस्य सतो देवचित्ताकर्षणकारणं ॥ १५७ ॥ तेनोक्तास्ते कृतस्नानं भुक्तवंतं सभूषणं । सुरा द्रक्षथ मां स्तोका वेलामत्रैव तिष्ठत ॥ १५८ ॥ एवमित्युदिते कृत्वा यः समस्तं यथोचितं । स्थितः सिंहासने रत्नशैलकूटसमद्युतिः ॥ १५९ ॥ दृष्ट्वा तस्य पुनारूपं निनिंदुर्नाकवासिनः । असारां धिगिमां शोभा मानां क्षणिकामिति१६० प्रथमे दर्शने यास्य यौवनेन समन्विता । सेयं क्षणात्कथं न्हासं प्राप्ता सौदामिनीत्वरी ॥१६॥ विज्ञाय क्षणिकां लक्ष्मी सुरेभ्यो रागवर्जितः । श्रमणत्वं परिप्राप्य महाघोरतपोन्वितः ॥ १६२ ॥ अधिसह्य महारोगान् महालब्धियुतोऽपि सन् । सनत्कुमारमारूढः स्वध्यानस्थितियोगतः १६३ बभूव पुंडरीकिन्यां नाम्ना मेघरथो नृपः । सर्वार्थसिद्धिमेतोऽसौ शिष्यो धनरथस्य सन् ॥१६४॥ च्युत्वा नागपुरे विश्वसेनस्यैराशरीरजः । तनयः प्रथितो जातः शांतिः शांतिकरो नृणां॥१६५॥ जातमात्रोऽभिषेकं यः सुरेभ्यः प्राप्य मंदिरे । अभूच्चक्रांकभोगस्य नाथोऽसाविंद्रसंस्तुतः॥१६६॥ विहाय तृणवद्राज्यं प्रावाज्यं समश्रियत् । चक्रिणां पंचमो भूत्वा जिनानां षोडशोऽभवत् १६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org