________________
पद्मपुराणम् ।
विंशतितम पर्व । भार्या विनयवत्यस्य तद्वियोगेन दुःखिता । शीलशेखरसद्धा गृहधर्मपरायणा ॥ १४२ ॥ स्वनिवेशे जिनेंद्राणां कारयित्वा वरालयं । प्रव्रज्य सुतपः कृत्वा जगाम गतिमर्चितां ॥१४३ ॥ तत्रैवान्योऽभवद्गामे हेमबाहुमहागृही । आस्तिकः परमोत्साहो दुराचारपराङ्मुखः ॥ १४४ ॥ तया विनयवत्यासौ कारितं जैनमालयं । अनुमोद्य महापूजा यक्षीभूदायुषः क्षये ॥ १४५ ।। चतुर्विधस्य संघस्य निरतः पर्युपासने । सम्यग्दर्शनसंपन्नो जिनवंदनतत्परः ॥ १४६ ॥ ततः सुमानुषो देव इति त्रि-परिवर्तनं । कुर्वन्नसौ महापुर्यामासीद्धर्मरुचिर्नृपः ॥ १४७ ॥ यस्य सानत्कुमारस्य पितासीत्सुप्रभाह्वयः । वरस्त्रीगुणमंजूषा माता तिलकसुंदरी ॥ १४८ ॥ कृत्वा सुप्रभशिष्यत्वं महाव्रतधरस्ततः । महासमितिसंपन्नश्वारुगुप्तिसमावृतः ॥ १४९ ॥ आत्मनिंदापरो धीरः स्वदेहेऽत्यंतनिस्पृहः । दयादमपरो धीमान् शीलवैवाधिकः परः ॥१५०॥ शंकादिदृष्टिदोषाणामतिदूरव्यवस्थितः । साधूनां सततं सक्तो वैयावृत्ये यथोचिते ॥ १५१ ॥ संयुक्तः कालधर्मेण माहेंद्र कल्पमाश्रितः । अवाप परमान् भोगान् देवीनिवहमध्यगः ॥१५२॥ च्युतो नागपुरे जातः साहदेवः स वैजयी । सनत्कुमारशब्देन ख्यातश्चक्रांकशासनः ॥ १५३ ॥ संकथानुक्रमाद्यस्य सौधर्मेंद्रेण कीर्तितं । रूपं दृष्टुं समाजग्मुः सुरा विस्मयकारणं ॥ १५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org