________________
पद्मपुराणम्।
४५०
विंशतितम पर्व। सौमंगलो बभूवासौ चक्री सगरसंज्ञितः । भुक्त्वा भोगं महासारं सुरपूजितशासनः ॥ १२९ ॥ प्रबुद्धः पुत्रशोकेन प्रव्रज्य जिनशासने । उत्पाद्य केवलं नाथः सिद्धानामालयं गतः ॥१३० ॥ शशिभः पुंडरीकिन्यां शिष्योऽभूद्विमले गुरौ । गत्वा ग्रैवेयकं भुक्त्वा संसारसुखमुत्तमं ॥१३१॥ च्युत्वा सुमित्रराजस्य भद्रवत्यामभूत्सुतः। श्रावस्त्यां मघवा नाम चक्रलक्ष्मीलतातरुः ॥१३२॥ श्रामाण्यव्रतमास्थाय धर्मशांतिजिनांतरे । समाधानानुरूपेण गतं सौधर्मवासितां ॥ १३३ ॥ सनत्कुमारचक्रेशे स्तुते मगधपुंगवः । ब्रवीति केन पुण्येन जातोऽसाविति रूपवान् ॥ १३४ ॥ तस्मै समासतोवोचत् पुराणार्थ महामुनिः । यन्न वर्षशतेनापि सर्व कथयितुं क्षमं ॥ १३५ ॥ तिर्यगनरकदुःखानि कुमानुषभवांस्तथा । जीवः प्रपद्यते तावद्यावन्नायाति जैनतां ॥ १३६ ॥ अस्ति गोवर्धनाभिख्यो ग्रामो जनसमाकुलः । जिनदत्ताभिधानोऽत्र बभूव गृहिणां वरः ॥१३७॥ यथा सर्वांबुधानानां सागरो मूर्द्धनि स्थितः । भूधराणां च सर्वेषां मंदरश्चारुकंदरः॥ १३८ ॥ गृहाणां हरिदश्वश्च तृणानामिक्षुरर्चितः। तांबूलाख्या च वल्लीनां तरूणां हरिचंदनं ॥ १३९ ॥ कुलानामिति सर्वेषां श्रावकाणां कुलं स्तुतं । आचारेण हि तत्पूतं सुगत्यर्जनतत्परं ॥ १४० ॥ स गृही तत्र जातः सन् कृत्वा श्रावकचेष्टितं । गुणभूषणसंपन्नः प्रशस्तामाश्रितो गतिं ॥१४१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org