________________
पद्मपुराणम्।
विंशतितम पर्व।
पल्योपमस्य दशमो भाग आद्यस्य कीर्तितं । मित्याकुलकरस्यायुर्लोकालोकावलोकिभिः॥११६॥ दशमो दशमो भागः पौरस्त्यस्य ततः स्मृतः । प्रमाणमायुषो राजन् शेषाणां कुलकारिणां ११७ चतुर्भिरधिकाशीतिः पूर्वलक्षाः प्रकीर्तिताः। प्रथमस्य जिनेंद्रस्य द्वितीयस्य द्विसप्ततिः ॥११८॥ षष्टिश्च पंचसु ज्ञेयः क्रमेण दशभिः क्षयः । विज्ञेये पूर्वलक्षे द्वे तथैकं परिकीर्तितं ॥ ११९ ॥ चतुर्भिरधिकाशीतिरब्दाः लक्षाः द्विसप्ततिः । षष्टिस्त्रिंशद्दशैका च समा लक्षाः प्रकीर्तिताः १२० नवतिः पंचभिः सार्धमशीतिश्चतुरुत्तराः । पंचाशत्पंचभिर्युक्तास्त्रिंशद्दश च कीर्तिताः ॥ १२१ ॥ एकं चाब्दं सहस्राणां संख्येयं परिकीर्तिताः । वर्षाणां च शतं द्वाभ्यामधिका सप्ततिस्तथा १२२ क्रमेणेति जिनेंद्राणामायुः श्रेणिक कीर्तितं । शृणु सम्प्रति यो यत्र जातश्चक्रधरान्तरे ॥ १२३ ॥ ऋषभेण यशोवत्यां जातो भरतकीर्तितः । यस्य नाम्ना गतं ख्यातिमेतद्वास्यं जगत्त्रये ॥१२४॥ अभूद्यः पुंडरीकिन्यां पीठः पूर्वत्र जन्मनि । सर्वार्थसिद्धिमैत्कृत्वा कुरुसेनस्य शिष्यतां ॥१२५॥ लोचनांतरमुत्पाद्य महासंवेगयोगतः । सर्वावभासनं ज्ञानं निर्वाणं स समीयिवान् ।। १२६ ॥ बभूव नगरे राजा पृथिवीपुरनामनि । विजयो नाम शिष्योऽभूद्यशोधरगुरोरसौ ॥ १२७ ॥ स मृतो विजयं गत्वा भुक्त्वा भोगमनुत्तमं । विनीतायामिह च्युत्वा विजयस्याऽऽप्य पुत्रतां १२८
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org