________________
पद्मपुराणम् ।
विंशतितमं पर्व |
द्विहस्तसम्मिता मर्त्या विंशत्यब्दायुषस्ततः । भविष्यति परे हस्तमात्रोत्सेधाः सुदुष्षमे || १०३ || आयुः षोडशवर्षाणि तेषां गदितमुत्तमं । वृच्या सरीसृपाणां ते जीविष्यत्यंतिदुःखिताः ।। १०४ ॥ ते विरूपसमस्तांगा नित्यं पापक्रियारताः । तिर्येच इव मोहार्ता भविष्यंति रुजार्दिताः || १०५ || न व्यवस्था न संबंधानेश्वरा नच सेवकाः । न धनं न गृहं नैव सुखमेकांतदुःखमे ॥ १०६ ॥ कामार्थधर्मसंगमारहेतुभिः परिचेष्टितैः । शून्याः प्रजा भविष्यंति पापपिंडचिता इव ॥ १०७ ॥ कृष्णपक्षे क्षयं याति यथा शुक्ले च वर्धते । इंदुस्तथैतयोरायुरादीनां हानिवर्धने ॥ १०८ ॥ उत्सवादिप्रवृत्तीनां रात्रिवासरयोर्यथा । हानिवृद्धी च विज्ञेये कालयोस्तद्वदेतयोः ॥ येनावसर्पिणीकाले क्रमेणोदाहृतः क्षयः । उत्सर्पिण्यामनेनैव परिवृद्धिः प्रकीर्तिता जिनानामंतरं प्रोक्तमुत्सेधं शृण्वतः परं । क्रमतः कीर्तयिष्यामि राजन्नवहितो भव शतानि पंच चापानां प्रथमस्य महात्मनः । उत्सेधो जिननाथस्य वपुषः परिकीर्तितः ॥ ११२ ॥ पंचाशच्चापहान्यातः प्रत्येकं परिकीर्तितं । शीतलात्प्राग्जिनेंद्राणां नवतिः शीतलस्य च ॥ ११३॥ ततो धर्मजिनात्पूर्वं दशचापपरिक्षयः । प्रत्येकं धर्मनाथस्य चत्वारिंशत्सपंचिका ॥ ११४ ॥ ततः पार्श्वजिनात्पूर्व प्रत्येकं पंचभिः क्षयः । नवरत्निमितः पार्थो महावीरो द्विवर्जितः ।। ११५ ।।
१०९ ॥
॥
Jain Education International
४४८
For Private & Personal Use Only
॥
११० ॥
१११ ॥
www.jainelibrary.org