SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४५४ पद्मपुराणम् । विंशतितम पर्व। उपलभ्य ताः समानीता निर्वेदिन्य प्रवव्रजुः । समाराधितकल्याणा देवलोकं समाश्रिताः॥१८१॥ तेप्यष्टौ तद्वियोगेन प्रव्रज्यां व्योमचारिणः । चक्रुर्विचित्रसंसारदर्शनत्रासमागताः ॥ १८२ ॥ हेतुना तेन चक्रेशः प्रतिबुद्धो महागुणः । सुते न्यस्य श्रियं पद्म निष्क्रांतो विष्णुना समं ॥१८३॥ महापद्मस्तपः कृत्वा परं संप्राप्तकेवलः । लोकप्राग्भारमारुक्षदरिमल्लिजिनान्तरे ॥ १८४ ॥ महेंद्रदत्तनामासीत्पुरे विजयनामनि । कृत्वा नंदनशिष्यत्वं महेंद्र कल्पमुद्ययौ ।। १८५ ॥ कांपिल्यनगरे च्युत्वा वप्रायां हरिकेतुतः । हरिषेण इति ख्यातो जज्ञे चक्रांकितेशतः ॥ १८६ ॥ स कृत्वा धरणी सर्वां निजां चैत्यविभूषणाम् । तीर्थे सुव्रतनाथस्य सिद्धानां पदमाश्रितः॥१८७॥ असिताहोऽभवद्राजा पुरे राजपुराभिधे । सुधर्ममित्रशिष्यत्वं कृत्वा ब्रह्मालयं ययौ ॥ १८८ ॥ ततश्युतो यशोवत्यां जातस्तत्रैव वैजयिः । जयसेन इति ख्यातश्चक्रचुंबितशासनः॥ १८९ ॥ परित्यज्य महाराज्यं दीक्षां दैगबरीमितः । रत्नत्रितयमाराध्य सैद्धं पदमशिश्रियत् ॥ १९० ॥ स्वतंत्रलिंगसंज्ञस्य संभूतः प्राप्य शिष्यतां । काश्यां कमलगुल्माख्यं विमानं समुपाश्रितः॥१९१॥ च्युतो ब्रह्मरथस्याभूत् पुरे कांपिल्यनामनि । चूलाहासंभवः पुत्रो ब्रह्मदत्तः प्रकीर्तितः ॥१९२॥ चक्रचिह्नामसौ मुक्त्वा श्रियं विरतिवर्जितः । सप्तमी क्षितिमश्लिक्षनेमिपार्श्वजिनांतरे ॥ १९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy