________________
पद्मपुराणम् ।
विंशतितम पर्व। कोटीकोट्यो दशैतेषां कालो रत्नाकरोपमः । सागरोपमकोटीनां दशकोट्यावसर्पिणी ॥ ७७ ।। उत्सर्पिणी च तावंत्यस्ते सितासितपक्षवत् । सततं परिवर्तेते राजन् कालस्वभावतः ॥ ७८ ॥ प्रत्येकमेतयोर्भेदाः षडुद्दिष्टा महात्मभिः । संसर्गवस्तुवीर्यादिभेदसंभववृत्तयः ॥ ७९ ॥ अत्यंतः सुषमः कालः प्रथमः परिकीर्तितः । कोटीकोट्यश्चतस्रोस्य सामुद्रोन्मानमुच्यते ॥८॥ कीर्तितः सुषमस्तिस्रो द्वयं सुषमदुःषमः । वक्ष्यमाणद्विकालाब्दैरूना दुःषमसत्समः ॥ ८१ ॥ उक्तो वर्षसहस्राणामेकविंशतिमानतः । प्रत्येकं दुःषमोत्यंतदुःषमश्च जिनाधिपैः ॥ ८२॥ पंचाशदधिकोटीनां लक्षाः प्रथममुच्यते । त्रिंशद्दशनवैतासां परिपाट्या जिनांतरं ।। ८३ ॥ नवतिश्च सहस्राणि नव चासां व्यवस्थितः । शतानि च नवैतासां नवतिस्तास्तथा नव ॥८४॥ समुद्रशतहीनैका कोटी दशममंतरं । चतुर्भिः सहिता ज्ञेया पंचाशत्सागरास्ततः ॥ ८५ ॥ त्रिंशन्नवाथ चत्वारः सागराः कीर्तितास्ततः। पल्यभोगत्रयन्यनं ततोरत्नाकरत्रयं ॥८६॥ पल्या शोडशं प्रोक्तं चतुर्भागोऽस्य तत्परं । न्यूनः कोटिसहस्रेण वर्षाणां परिकीर्तितः । ८७॥ समाः कोटिसहस्रं च तत्परं गदितं बुधैः । चतुःपंचाशदाख्यातं समालक्षस्तु तत्परं ॥ ८८ ॥ षड्लक्षा उत्तरं तस्मात्ततः पंच प्रकाशितं । सहस्राणि त्र्यशीतिस्तु सार्धाष्टमशतं परं ।। ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org