SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । विंशतितमं पर्व । अपक्कशालिसंकाशः पार्श्वे नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ॥ ६४ ॥ किंशुकोत्करसंकाशो वासुपूज्यः प्रकीर्तितः । नीलांजनगिरिच्छायो मुनिसुव्रततीर्थकृत् ॥ ६५ ॥ मयूरकंठसंकाशो जिनो यादवपुंगवः । सुतप्तकांचनच्छायाः शेषा जिनवराः स्मृताः ॥ ६६ ॥ वासुपूज्यो महावीरो मल्लः पार्श्वो यदूत्तमः । कुमारा निर्गता गेहात्पृथिवीपतयोऽपरे ॥ ६७ ॥ एते सुरासुराधीशैः प्रणताः पूजिताः स्तुताः । अभिषेकं परं प्राप्ता नगपार्थिवमूर्धनि ॥ ६८ ॥ सर्वकल्याण संप्राप्तिकारणीभूतसेवनाः । जिनेंद्रा पांतु वो नित्यं त्रैलोक्यपरमाद्भुताः ॥ ६९ ॥ आयुः प्रमाणबोधार्थ गणेश मम सांप्रतं । निवेदय परं तवं मनः पावनकारणं ॥ ७० ॥ यश्व रामतरे यस्य जिनेंद्रस्योपपद्यते । तत्सर्वं ज्ञातुमिच्छामि प्रतीक्ष त्वत्प्रसादतः ।। ७१ ।। इत्युक्तो गणभृत्सौम्यः श्रेणिकेन महादरात् । निवेदयांबभूवासौ क्षीरोदामलमानसः ॥ ७२ ॥ संख्याया गोचरं योर्थो व्यतिक्रम्य व्यवस्थितः । बुद्धौ कल्पितदृष्टांतः कथितोऽसौ महात्मभिः ॥ योजनप्रतिमं व्योम सर्वतो भित्तिवेष्टितं । अवेः प्रजातमात्रस्य रोमाग्रैः परिपूरितं ॥ ७४ ॥ द्रव्यपत्यमिदं गाढमाहत्य कठिनीकृतं । कथिते कल्पितं कस्य व्यापारोयं मुधा भवेत् ।। ७५ ।। तत्र वर्षशतेतीते एकैकस्मिन् समुद्धृते । क्षीयते येन कालेन कालपल्यं तदुच्यते ॥ ७६ ॥ Jain Education International ४४५ For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy