________________
पद्मपुराणम् ।
विंशतितम पर्व।
धर्मो रत्नपुरी भानुदींधिपर्णश्च सुव्रता । पुष्पश्च तव पुष्णातु श्रियं श्रेणिक धर्मिणीं ॥ ५१ ।। भरणी हास्तिपस्थानमैराणी नंदपादपः । विश्वसेननृपः शांतिः शांतिं कुर्वतु ने सदा ॥ ५२ ॥ सूर्यो गजपुरं कुंथुस्तिलकः श्रीश्च कृत्तिका । भवंतु तव राजेंद्र पापद्रवणहेतवः ।। ५३ ॥ मित्रा सुदर्शनश्चूतो नगरं पूर्वकीर्तितं । रोहिण्यरजिनेंद्रश्च नाशयंतु रजस्तव ॥ ५४॥ रक्षिता मिथिला कुंभो जिनेशो मल्लिरश्विनी । अशोकश्च तवाशोकं मनः कुर्वतु पार्थिव ॥ ५५ ॥ पद्मावती कुशाग्रं च सुमित्रः स्रवणस्तथा । चंपकः सुव्रतेशश्च व्रजंतु तव मानसं ।। ५६ ॥ विजेया मिथिला वप्रा बकुलो नमितीर्थकृत् । अश्विनी च प्रयच्छंतु तव धर्मसमागमं ॥ ५७ ।। समुद्रविजयश्चित्रा नेमिः शौरिपुरं शिवा । ऊर्जयंतश्च ते मेषशंगश्चास्तु सुखप्रदः ॥ ५८ ।। वाराणसी विशाखा च पार्थो वर्माधवोंघ्रिपः । अश्वसेनश्च ते राजन दिशंतु मनसो धृतिं ॥५९॥ शालः कुंडपुरं पावासिद्धार्थः प्रियकारिणी । हस्तोत्तरं महावीरं परमं तव मंगलं ॥ ६० ॥ चंपैव वासुपूज्यस्य मोक्षस्थानमुदाहृतं । पूर्वमुक्तं त्रयाणां तु शेषाः सम्मेदनिवृताः ॥ ६१ ॥ शांतिः कुंथुररश्चेति राजानश्चक्रवर्तिनः । संतस्तीर्थकरा जाता शेषाः सामान्यपार्थिवाः ॥ ६२॥ चंद्राभश्चंद्रसंकाशः पुष्पदंतश्च कीर्तितः । प्रियंगुमंजरीवर्णः सुपार्थो जिनसत्तमः ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org