SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। ४४३ विंशतितमं पर्व। साकेता विजया नाथो जितशत्रुजिनोत्तमः । रोहिणी सप्तपर्णश्च मंगलं श्रेणिकास्तु ते ॥ ३८ ॥ सेना जितारिराजश्च श्रावस्तीसंभवो जिनः । ऐंद्रमृक्षं ततः शालः परमं तेस्तु मंगलं ॥ ३९ ॥ सिद्धार्था संवरोऽयोध्या सरलश्च पुनर्वसुः । अभिनंदननाथश्च भवंतु तव मंगलं ॥ ४० ॥ सुमंगला प्रियंगुश्च मघा मेघप्रभा पुरी । साकेता मुमति थो जगदुत्तममंगलं ॥४१॥ सुसीमा वत्सनगरी च चित्रधरणशब्दितः । पद्मप्रभः प्रियंगुश्च भवंतु तव मंगलं ॥ ४२ ॥ सुप्रतिष्ठः पुरी काशी विशिखा पृथिवी तथा । शिरीषश्च सुपार्श्वश्व राजन् परममंगलं ॥४३॥ नागवृक्षोऽनुराधक्षं महासेनश्च लक्ष्मणः । ख्याता चंद्रपुरी चंद्रप्रभश्च तव मंगलं ॥४४॥ काकंदी सुविधिमूलं रामा सुग्रीवपार्थिवः । सालस्तरुश्च ते संतु चित्तपावनकारणं ॥ ४५ ॥ प्लक्षो दृढरथो राजा भद्रिका शीतलो जिनः । सुनंदा प्रथमाषाढा संतु ते मंगलं परं ॥ ४६ ॥ विष्णुश्रीः श्रमणो विष्णुः सिंहनादश्च तिंदुकः । सततं नु जिनः श्रेयान् श्रेयः कुर्वतु ते नृप ४७ पाडला वसुपूज्यश्च जया शतभिषं तथा । चंपा च वासुपूज्यश्च लोकपूजां दिशंतु ते ।। ४८ ॥ कापिल्यं कृतवमो च शमो प्रोष्ठुपदोत्तरा । जंबूर्विमलनाथश्च कुर्वतु त्वां मलोज्झितं ॥ ४९ ॥ अश्वस्थः सिंहसेनश्च विनीता रेवती तथा । श्लाघ्या सर्वयशा नाथोंनंतश्च तव मंगलं ॥५० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy