SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४४२ पद्मपुराणम् । विंशतितमं पर्व | वज्रसेनो महातेजास्तथा वीरो रिपुंदमः । अन्य स्वयंप्रभाभिख्यः श्रीमान् विमलवाहनः ॥ २५ ॥ गुरु: सीमंधरो ज्ञेयो नाथश्च पिहितास्रवः । महातपस्विनावन्यावरिंदमयुगंधरौ ॥ २६ ॥ तथा सर्वजनानंदः सार्थकाभिख्ययान्वितः । अभयानंदसंज्ञश्च वज्रदत्तोऽपरः प्रभुः ॥ २७ ॥ वज्रनाभिश्च विज्ञेयः सर्वगुप्तिश्च गुप्तिमान । चिंतारक्षप्रसिद्धिश्च पुनर्विपुलवाहनः ॥ २८ ॥ मुनिर्धनरवो धीरः संवरः साधुसंवरः । वरधर्मस्त्रिलोकीयः सुनंदो नंदनामभृत् ॥ २९ ॥ व्यतीतशोकसंज्ञश्च डामिल: प्रोष्ठिलस्तथा । क्रमेण गुरवो ज्ञेया जिनानां पूर्वजन्मनि ॥ ३० ॥ सर्वार्थसिद्धिसंशब्दो वैजयंतः सुखावहः । ग्रैवेयको महामासः वैजयंतः स एव च ॥ ३१ ॥ ऊर्ध्वग्रैवेयको ज्ञेयो मध्यमश्च प्रकीर्तितः । वैजयंतो महातेजा अपराजितसंज्ञकः ॥ ३२ ॥ आरणश्च समाख्यातस्तथा पुष्पोत्तराभिधः । कापिष्टः पुर शुक्रश्च सहस्रारो मनोहरः ॥ ३३ ॥ त्रिपुष्पोत्तरसंज्ञोतो मुक्तिस्थानधरस्थितः विजयाख्यस्तथा श्रीमानपराजितसंज्ञकः ॥ ३४ ॥ प्राणतोऽनंतरातीतो वैजयंतो महाद्युतिः । पुष्पोत्तर इति ज्ञेयो जिनानाममरालयाः ।। ३५ ।। जिनानां जन्मनक्षत्रं मातरं पितरं पुरं । चैत्यवृक्षं तथा मोक्षस्थानं ते कथयाम्यतः ।। ३६ ।। विनीता नगरी नाभिर्मरुदेव्युत्तरा तथा । आषाढ़ा वटवृक्षश्च कैलाशः प्रथमो जिनः ॥ ३७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy