________________
पद्मपुराणम् ।
४४१
विंशतितम पर्व ।
तथा रत्नवरैर्दीप्ता रत्नसंचयनामिका । चतस्रः परमोदारा सुव्यवस्था इमा पुरः ॥ १२ ॥ वासुपूज्यजिनांतानां जिनानामृषभादितः । आसन् पूर्वभवे रम्या राजधान्यः सदोत्सवाः॥१३॥ सुमहानगरं चारु तथारिष्टपुरं वरं । सुमाद्रिका च विख्याता तथासौ पुंडरीकिनी ॥ १४ ॥ सुसीमा सीमसंपन्ना क्षेमा च क्षेमकारिणी । व्यतीतशोकनामा च चंपा च विदिता भुवि॥१५॥ कौशांबी च महाभोगा तथा नागपुरं पृथु । साकेता कांतभवना छत्राकारपुरं तथा ॥ १६ ॥ अनुक्रमेण शेषाणां जिनानां पूर्वजन्मनि । राजधान्य इमा ज्ञेयाः पुर्यः स्वर्गपुरीसमाः॥ १७ ॥ वज्रनाभिरिति ख्यातस्तथा विमलवाहनः । अन्यश्च विपुलख्यातिः श्रीमान् विपुलवाहनः॥१८॥ महाबलोऽपरः कांतस्तथातिवलकीर्तनः । अपराजितसंज्ञश्च नंदिषेणाभिधोऽपरः॥ १९॥ पद्मश्चान्यो महापग्रस्तथा पद्मोत्तरो भुवि । नाथः पंकजगुल्माख्य पंकजप्रतिमाननः ।। २० ॥ विभुर्नलिनगुल्मश्च तथा पद्मासनः सुखी । स्मृतः पद्मरथो नाथः श्रीमान् दृढरथोऽपरः ॥२१॥ महामेघरथो नाम शूरः सिंहरथाभिधः । स्वामी वैश्रवणो धीमान् श्रीधर्मोन्यो महाधनः ॥२२॥ अप्रतिष्ठः सुरश्रेष्ठः सिद्धार्थः सिद्धशासनः । आनंदो नंदनीयोऽन्यः सुनंदश्चेति विश्रुतः ।। २३ ॥ पूर्वजन्मनि नामानि जिनानामिति विष्टपे । प्रख्यातानि मयोक्तानि क्रमेण मगधाधिप ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org