SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ४४० विंशतितम पर्व। विंशतितमं पर्व। अथैवं श्रेणिकः श्रुत्वा विनीतात्मा प्रसनधीः । प्रणम्य गणिनः पादौ पुनरूचे सविस्मयः ॥१॥ प्रसादात्तव विज्ञातः प्रतिशत्रोः समुद्भवः । अष्टमस्य तथाभेदः कुलयोः कपिरक्षसां ॥ २ ॥ सांप्रतं श्रोतुमिच्छामि चरितं जिनचक्रिणां । नाथ पूर्वभवैर्युक्तं बुद्धिशोधनकारणं ॥३॥ अष्टमो यश्च विख्यातो हली सकलविष्टपे । वंशे कस्य समुद्भूतः किंवा तस्य विचेष्टितं ॥ ४ ॥ अमीषां जनकादीनां तथा नामानि सन्मुने । जिज्ञासितानि मे नाथ तत्सर्व वक्तुमर्हसि ॥५॥ इत्युक्तः स महासत्वः परमार्थविशारदः। जगाद गणभृद्वाक्यं चारुप्रश्नाभिनंदितः॥६॥ शृणु श्रेणिक वक्ष्यामि जिनानां भवकीर्तनं । पापविध्वंसकरणं त्रिदशेंद्रनमस्कृतं ॥७॥ ऋषभोऽजितनाथश्च संभवश्चाभिनंदनः । सुमतिः पद्मनाभश्च सुपार्श्वः शशिभृत्प्रभुः ॥ ८॥ सुविधिः शीतलः श्रेयान् वासपूज्योऽमलप्रभुः । अनंतो धर्मशांती च कुंथुदेवो महानरः॥९॥ मल्लिः सुव्रतनाथश्च नमिर्ने मिश्च तीर्थकृत् । पार्थोयं पश्चिमो वीरो शासनं यस्य वर्तते ॥१०॥ नगरी परमोदारा नामतः पुंडरीकिणी । सुसीमेत्यपरा ख्याता क्षेमेत्यन्यातिशोभना ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy