________________
पद्मपुराणम् ।
एकोनविंशति पर्व।
उल्कासमूह इव संगतवान् प्रचंडो । जज्वाल शस्त्रभवने प्रतिपन्नपूजः ॥ १३७ ॥ सोयं स्वकर्मवशतः कुलसंक्रमेण । संप्राप्य राक्षसपुरी पुरुचारुकीर्तिः ।।
ऐश्वर्यमद्भुततरं च समंतभद्रं । रक्षःपतिः परमसंसृतिसौख्यमेतः ॥ १३८ ॥ सदृष्टिबोधचरणप्रतिपत्तिहेतौ । दूरं गतेथ मुनिसुव्रतनाथतीर्थे । ___ अत्यंतमूढकविभिः परमार्थदूरैः । लोकेऽन्यथैव कथितः पुरुषः प्रधानः ॥ १३९ ॥ विषयवशमुपेतैर्नष्टतत्त्वार्थबोधैः। कविभिरतिकुशीलैर्नित्यपापानुरक्तैः ॥
कुरचितगरहेतुग्रंथवाग्वागुराभिः । प्रगुणजनमृगौघो बध्यते मंदभाग्यः ॥ १४० ॥ इति विदितयथाववृत्तवस्तुप्रपंचः । क्षतकुमतजनोक्तग्रंथपंकप्रसंगः॥
भज सुरपतिवंद्यं शास्त्ररत्नं जिनानां । रविसमधिकतेजः श्रेणिक श्रीविशालः ॥१४१॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्म-चरिते रावणसाम्राज्यभिधानं नामैकोनविंशतितमं पर्व विद्याधरकांडं समाप्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org