Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
विंशतितमं पर्व ।
अपक्कशालिसंकाशः पार्श्वे नागाधिपस्तुतः । पद्मगर्भसमच्छायः पद्मप्रभजिनोत्तमः ॥ ६४ ॥ किंशुकोत्करसंकाशो वासुपूज्यः प्रकीर्तितः । नीलांजनगिरिच्छायो मुनिसुव्रततीर्थकृत् ॥ ६५ ॥ मयूरकंठसंकाशो जिनो यादवपुंगवः । सुतप्तकांचनच्छायाः शेषा जिनवराः स्मृताः ॥ ६६ ॥ वासुपूज्यो महावीरो मल्लः पार्श्वो यदूत्तमः । कुमारा निर्गता गेहात्पृथिवीपतयोऽपरे ॥ ६७ ॥ एते सुरासुराधीशैः प्रणताः पूजिताः स्तुताः । अभिषेकं परं प्राप्ता नगपार्थिवमूर्धनि ॥ ६८ ॥ सर्वकल्याण संप्राप्तिकारणीभूतसेवनाः । जिनेंद्रा पांतु वो नित्यं त्रैलोक्यपरमाद्भुताः ॥ ६९ ॥ आयुः प्रमाणबोधार्थ गणेश मम सांप्रतं । निवेदय परं तवं मनः पावनकारणं ॥ ७० ॥ यश्व रामतरे यस्य जिनेंद्रस्योपपद्यते । तत्सर्वं ज्ञातुमिच्छामि प्रतीक्ष त्वत्प्रसादतः ।। ७१ ।। इत्युक्तो गणभृत्सौम्यः श्रेणिकेन महादरात् । निवेदयांबभूवासौ क्षीरोदामलमानसः ॥ ७२ ॥ संख्याया गोचरं योर्थो व्यतिक्रम्य व्यवस्थितः । बुद्धौ कल्पितदृष्टांतः कथितोऽसौ महात्मभिः ॥ योजनप्रतिमं व्योम सर्वतो भित्तिवेष्टितं । अवेः प्रजातमात्रस्य रोमाग्रैः परिपूरितं ॥ ७४ ॥ द्रव्यपत्यमिदं गाढमाहत्य कठिनीकृतं । कथिते कल्पितं कस्य व्यापारोयं मुधा भवेत् ।। ७५ ।। तत्र वर्षशतेतीते एकैकस्मिन् समुद्धृते । क्षीयते येन कालेन कालपल्यं तदुच्यते ॥ ७६ ॥
Jain Education International
४४५
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522