Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
२७०• श्रीनेमिनाथस्तोत्रसङ्ग्रहः
छयजुय'त्ति तानि विंशतिसहस्राणि षट्शतयुतानि (२०६००) 'विउव्वीणं' ति वैक्रियलब्धिवताम् ॥२१॥
तथा द्वादशसहस्राणि षट्शतानि सार्द्धानि (१२६५०) वादिनश्च सदेवमनुजाऽसुरायां सभायामप्यपराजिताः । तथा विपुलमतयश्च द्वाविंशतिसहस्राणि षट्शतानि सार्द्धानि तत्र विपुला बहुविधविशेषणोपेतमन्यमानवस्तुविग्राहित्वेन विस्तीर्णा मतिर्मनःपर्यायज्ञानं येषां ते विपुलमतयः, ते हि सम्पूर्णे मनुष्यक्षेत्रे व्यवस्थितानां संज्ञिनां मनोवर्ति सर्वविशेषोपेतं वस्तु विपुलमतयो जानन्ति । ऋजुमतयस्तु सामान्यत एवाऽर्द्धतृतीयाङ्गलन्यूने मनुजक्षेत्रे व्यवस्थितानां संज्ञिनां मनोमात्रग्राहकाः न च तैरिहाधिकार इति । तथा द्वाविंशतिसहस्राणि नवशतानि च (२२९००) अनुत्तरोपपातिनः अनुत्तरविमानेषूपपात - उत्पत्तिर्विद्यते येषां ते तथा, ते चागामिभवभाविसिद्धिगतयो ज्ञेयाः ॥ २२ ॥ इति गाथा चतुष्ट्यर्थः
अथ मोक्षकल्याणकं भणन्ति
सामन्नं पालिय पुव्वलक्खमक्खाय महव्वए, पंच । चक्कहरभरहवंदिय ! चउकल्लाणुत्तरासाढ ! ॥२३॥ पज्जंकठिओ अट्ठावए समं दसेहिं साहुसहस्सेहिं । तं माहकिण्हतेरसि पुव्वऽभीइरिक्खमि ॥२४॥ चउदसमेण सिवसुहं संपत्तोसि जिणवल्लह ! मुणीण ! | मह कुरु दयं, हर भयं, देहि मइ, नेहि परमपयं ॥२५॥ तिसृभिः कुलकम् ॥ श्रामण्यं-चारित्रधर्मं पालयित्वा पूर्वलक्षं यावत् भगवतश्च सर्वायुः चतुरसीतिपूर्वलक्षाः तत्र विंशतिपूर्वलक्षाः कुमारत्वे त्रिषष्टिपूर्वलक्षा राज्ये एकं पूर्वलक्षं श्रामण्ये इति । तथा पञ्चमहाव्रतान्याख्याय - प्ररूप्य हे चक्रधरभरतवन्दित !-भरतचक्रवर्तिप्रणत ! अत्र भरत इत्युपलक्षणमात्रं तेन
‘वराक्ष-श्रग्युतावामदोर्युगो गजवाहनः । समातुलिङ्गया.... दोर्द्वयः कनकद्युतिः ||१||
समुत्पेदे जगद्भर्तुः सदा सन्निधिसेवकः । तीर्थत्राणकलादक्षो यक्षो गोमुखसंज्ञया ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360