Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
परिशिष्ट - 'क' • २९७ त्वं जन्ममज्जनक्षणे शक्रस्येन्द्रस्य कुविकल्पः 'कालयोगाल्लघुतनुरेष भगवान् सुरक्षिप्तस्नात्रजलानि कथं सहिष्यत ?' इत्येवंरूपः, स एव शङ्कः कीलस्तमुत्खनितुं, येन कारणेन त्वं महान्तमपि गिरिमीरयामासिथ कम्पयामासिथ ततः कारणान्महावीर इति नामा देवैः कृतं व्युत्पत्तिपूर्वं महावीर इति नामेति गाथार्थः ॥१६॥ ___ अत्राऽन्तरे न्यूनाष्टवर्षस्य भगवत आमलकीक्रीडायां सुराऽक्षोभ्यता, साग्राष्टवार्षिकस्य लेखशाला नयने स्वयमिन्द्राय व्याकरणनिरूपणा जैनेन्द्रव्याकरणोत्पादनं, यौवने च श्रीसमवीरस्य राज्ञः सुताया यशोदायाः पाणिग्रहणादिकं च प्रसिद्धत्वादुपेक्ष्य । अथ भगवतो गृहावस्थाने कारणमाहुः
पियरमरणे वि तं जिट्ठभाउवयणेण ठासि वासद्गं । गिहवासि च्चिय निरवज्जवित्तिणा नित्थियमुणि व्व ॥१७॥
जन्मतः स्वामिनोऽष्टाविंशे वर्षे पित्रोर्मरणेऽपि जीवतोः पित्रोर्नाहं व्रतं गहीष्यामीत्यभिग्रहपूर्तावपीत्यपेरर्थः, त्वं ज्येष्ठस्य भ्रातुर्नन्दिवर्धननाम्नो वचनेन भ्रातुरुपरोधात् अष्टाविंशवर्षोपरि वर्षद्विकं गृहवासे एव निरतिचारया वृत्या निश्चितमुनिरिव-महामुनिवत् अस्था इति प्रथमाऽर्धान्ते क्रियया योग इति गाथार्थः ॥१७॥ अथ दीक्षाकल्याणं भणन्ति
सत्तकरदेह ! गेहम्मि अत्थीउं तीसवत्छरे कुमरो । लोगंतियतोरविओ संवच्छरमिच्छियं दाउं ॥१८॥ सुरनर-वइकयबहुविहजलन्हवणो सुरविलेवणविलित्तो । रुइरालंकारधरो चऊदेवनिकायसमणुगओ ॥१९॥ चंदप्पहसिवियाए मग्गसिरे कसिणदसमिअवरह्ने । पढमवए पव्वईओ छटेणं नायसंडवणे ॥२०॥ तिसृभिः कुलकम् ।।
हे सप्तकरदेह ! त्वं गेहे, 'अत्थिउं'-अवस्थाय, त्रिंशद्वर्षाणि, अनादृतराज्यत्वात् कुमारः लोकान्ते भवैर्लोकान्तिकैर्देवैः 'सारस्सय १ माइच्चा २ वह्नी ३ वरुणा य ४ गद्दतोया य ५ । तुसिया ६ अव्वबाहा ७ अग्गिच्चा चेव ८ रिहा य ९ ॥१॥ [ज्ञाताधर्मकथा-१-८]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360