Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
परिशिष्ट - 'क' • ३०९ या प्रश्नाद् विधिपर्युदासभिदयाबाधच्युता सप्तधा, धर्मं धर्ममपेक्ष्य वाक्यरचनानेकात्मके वस्तुनि । निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया, जल्पन् जल्परणां गणां विजयते वादी विपक्षं क्षणात् ॥१॥
इह च सप्तभङ्गी भावना स्वयं कार्या । कियन्तं कालं प्रकटयामासेत्याह देशोनानि त्रयोदशपक्षैः न्यूनानि द्वात्रिंशद्वर्षाणि एतावान् केवलिपर्याय इत्यर्थः, इति गाथार्थः ॥४१॥ अथ भगवतो मोक्षकल्याणकं प्राहुः
मज्झिमपावाए हत्थिवालभूवालसुंकसालाए । पज्जंकठिओ पासाओ वास दुसए गए सड्ढे ॥४२॥ कत्तियअमावसाए गोसे छटेण साइनक्खत्ते । एगुच्चिय बावत्तरिवरिसाऊ तं सिवं पत्तो ॥४३॥ युग्मम् ॥
मध्यमपापानगर्यां हस्तिपालस्य राज्ञः शुल्कशालायां-दानमण्डपिकायां पर्यङ्कस्थितः
स्याज्जक्योरधोभागे, पादोपरिकृते सति । पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥१॥ इति [योगशास्त्रं-४-१२५]
पर्यङ्कासनस्थ: पद्मासनस्वरूपपादपोपगमवानित्यर्थः यतः सर्वेऽपि हि भगवन्तोऽर्हन्तः पादपोपगमेन सिध्यन्ति । तथा चोक्तं
'सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरू सव्वहिया सव्वे मेरुसु अहिसित्ता ॥१॥ सव्वाहि वि लद्धीहिं सव्वेऽवि परीसहे पराजित्ता । सव्वेऽवि य तित्थयरा पाउवगयाउ सिद्धिगया ॥२॥'
[मरणसमाधिपयन्ना-४३८-४३९] इति पादपोपगमनस्वरूपं चेदं'निच्चलनिप्पडिक्कम्मो निक्खिवए जं जहिं जहाहि । अंगं एयं पाउगमं नीहारिं वा अनीहारिं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360