Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 332
________________ परिशिष्ट - 'क' . २९५ 'माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्री-हीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टेभ्रंशो वेपथुश्चाऽरतिश्च ॥१॥ [शालिनी] इत्यादिरूपं 'इंति'त्ति यान्ति – प्राप्नुवन्ति । तीर्थङ्करसुराः पुनः आसन्नपुण्यपुञ्जाः आसन्नः पुण्यपुञ्जस्तीर्थङ्करकर्मोदयलक्षणो येषां ते तथा । दीपन्तेऽधिकं द्योतन्त इति गाथार्थः ॥९॥ अथ तीर्थकृत्भवे गर्भावतारं सविस्तारं प्ररूपयन्तिमाहणकुंडग्गामे अवयरिओ सियअसाढछट्ठीए । विप्पोसहदत्तगिहे देवाणंदाइउयरम्मि ॥१०॥ ततः पुष्पोत्तरविमानच्च्यूतो नन्दनजीवो ब्राह्मणकुण्डग्रामे विप्रस्य ऋषभदत्तस्य गृहे गृहिण्या देवानन्दाया उदरे सितायां शुक्लायामाषाढषष्ठ्यां मरीचिभवकृतकुलमदेनाऽर्जितनीचैर्गोत्रकर्मोदयात् त्वमवतीर्णः समतार्षीः । तदा चोत्तरफाल्गुन्यां चन्द्रोऽभूत् । देवानन्दा चतुर्दशमहास्वप्नान् ददर्श । सा प्रातः पत्येऽवदत् । सोप्यद्भुतस्ते सुतो भावीत्याख्यदिति गाथार्थः ॥१०॥ अथ गर्भगते भगवति यवृत्तं महाश्चर्यं तदाहुःअह बासीइ दिणंते चउदससुमिणेहिं इतजंतेहिं । हत्थुत्तरकयकल्लाणपणग ! अच्छरियचरिय ! तओ ॥११॥ जणनायनायखत्तियपसिद्धसिद्धत्थपत्थिवपियाए । चेडगनिवभगिणीए तिसलादेवीए कुच्छीए ॥१२॥ सक्कभणिएण हरिणेगमेसिणा गब्भविणमयं काउं । आसोयकिसणतेरसि निसाए तं नाह ! साहरिओ ॥१३॥ तिसृभिः कुल० ॥ व्याख्या - अथ गर्भाऽवतारात् व्यशीति (-८२) दिनान्ते चतुर्दशस्वप्नैः 'इतजंतेहिं'ति त्रिशलापेक्षया आगच्छद्भिर्मुखे प्रविशद्भिः, देवानन्दापेक्षया गच्छद्भिर्मुखान्निःक्रामद्भिः । हे हस्तोत्तराकृतकल्याणपञ्चक ! हस्त उत्तरो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360