Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 331
________________ २९४ . श्रीनेमिनाथस्तोत्रसङ्ग्रहः दिन ३१ । भागः पात्यते । ततो यथावं, गाथाभणितमायाति-११६१२९० । अपश्चिममासक्षपणे दिनानि ४० सम्भाव्यन्ते एतावति मासक्षपणानि, एतावन्त्येव पारणानि भवन्तीति ॥८॥ तथा असकृत्-वारं वारं सेवित्वा विंशतिस्थानानि, अर्जित्वा तीर्थकरनाम, यदुक्तं श्रीआवश्यके 'अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसु ७ । वच्छल्लया य एसिं अभिक्खनाणोवओगो य ८॥१॥ दंसण ९ विणए १० आवस्सए य ११ सीलव्वए निरइयारे १२।। खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाही य १० ॥२॥ अपुव्वनाणगहणे १८ सुयभत्ती १९ पवयणपभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ॥३॥' इति [आवश्यकनियुक्ति-१७९, १८०, १८१] अत्र गुरुश्चतुर्विधः-सम्यक्त्वगुरुः १ दीक्षागुरुः २ उपस्थापनागुरुः ३ श्रुतुगुरुः ४ । 'वच्छल्लये'त्ति अनुरागः यथावस्थितगुणोत्कीर्तनाद्यनुरूपया वच्छलतया । 'शीलव्वए'ति शीलान्युत्तरगुणाः, व्रतानि-मूलगुणास्तेषु निरतिचारः । 'खणलव'ति क्षणलवादिषु संवेगभावनाध्यानाऽऽसेवनां । 'च्चियाए'त्ति त्यागश्च यतिजने भेषजपथ्यादिदानम् । 'समाहि'त्ति समाधि दिनां कार्यकरणद्वारेण स्वस्थताऽऽपादनम् । 'पवयणपभावणय'ति यथाशक्त्या मार्गदेशनादिभिः शासनौनत्यसम्पादनं प्रवचनप्रभावना एभिः तीर्थङ्करत्वं बध्यते । शेषं स्पष्टम् । षष्टिवासराऽवशेषे स्वायुषि चाऽनशनं प्रतिपद्य, सर्वायुः पञ्चविंशतिवर्षलक्षाणि प्रतिपाल्य, विंशत्यतराणि सागरोपमाणि आयुर्यस्य स विंशत्यतरायुरेवंविधः प्राणतकल्पे पुष्पोत्तरे विमाने देवो जात:-समुत्पन्न इति गाथायुगलार्थः ॥८॥ अथ तत्रेतरसुरेभ्यो भावितीर्थङ्करसुराणां विशेषस्थिति दर्शयन्तिछम्मासवसेसो उ पुन्नखए मोहमिति इयरसुरा । आसन्नपुन्नपुंजा तित्थयरसुरा उ दिप्पंति ॥९॥ व्याख्या - इतरे सुराः षण्मासाऽवशेषायुषः पुण्यक्षये सति-देवभवभोग्यकर्माऽल्पत्वे सति, मोहं - अन्यथाभावं Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360