Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 335
________________ २९८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः इति नामकैब्रह्मलोके कृष्णराज्यन्तर्गतविमानवासिभिः, 'तोरविउ' - प्रोत्साहितस्ततस्त्रिंशत्तमे वर्षे संवत्सरं यावत् इप्सितं दानं दत्वा, तत्र च प्रतिदिनं ‘एगा हिरन्नकोडी अद्वैव अणूणगा सयसहस्सा। सूरोदइमाईउं दिज्जइ जा पाउरा सा ओ ॥१॥ [आचाराङ्ग:-११३/आवश्यकनियुक्ति:-२१७] .. तथा च-'तिन्नेव य कोडिसया, अट्ठासीअं च हुंति कोडीओ। .. असीइं च सयसहस्सा एवं संवच्छरे दिन्नं. ॥१॥ [आचाराङ्गः-११४] एतच्च नियतं दानं, अनियतं तु धन-कनक-सुवर्ण-रत्न-मणि-गजाऽश्वादि यद् येन वाञ्छितं तस्मै तद् दत्तमपि । सुरनरपरिकृतबहुविधतीर्थजलस्नपन: सुरविलेपनविलिप्तः रुचिरालङ्कारधरः चतुभिर्देवानां निकायैःसमूहैर्भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकलक्षणैः समनुगतः-परिवृतः चन्द्रप्रभानाम्न्यां शिबिकायां-सहस्रजनवाह्यविमानाकारराजवाहनविशेषे समारुढ इति गम्यं, तस्याः प्रमाणं तु- . ‘पन्नासं आयामा धणूणि विच्छिन्न वीसं तु । छत्तीस उच्छिट्ठा सीविया चंदप्पहा भणिया ॥१॥' [ ] इति मार्गशीर्षे मासे कृष्णादशम्यां, अपराह्ने-चरमपौरुष्यां, प्रथमे वयसि-कौमारे, षष्टेन तपसा, ज्ञातखण्डनाम्नि वने, एकाकी त्वं, प्रव्रजितोगृहस्थधर्मान्निर्गत:-श्रमणीभूत इति यावदिति गाथात्रयार्थः ॥१८-२०॥ तदा भगवतश्चतुर्थं मनःपर्यवज्ञानमुत्पन्नंयदुक्तं - तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरित्ते, चउणानी जाव छउमत्था ॥१॥ इति [आवश्यकनियुक्ति:-११०] ततो दीक्षा प्रतिपत्तिसमये इन्द्रेण वामस्कन्धापितं देवदूष्यं भगवांस्तदैवाऽतियाचमानाय पितृमित्राय सोमनाम्ने द्विजायाऽनुकम्पया स्फाटयित्वाऽर्धं ददौ । तदर्धं स्वामी हिंसाचरणधर्मव्यवस्थापनार्थं स्वांऽशदेश एवाऽस्थापयत् । ततो विहरतः प्रथमरात्रिवृत्तमाहुः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360