________________
२९८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः इति नामकैब्रह्मलोके कृष्णराज्यन्तर्गतविमानवासिभिः, 'तोरविउ' - प्रोत्साहितस्ततस्त्रिंशत्तमे वर्षे संवत्सरं यावत् इप्सितं दानं दत्वा, तत्र च प्रतिदिनं
‘एगा हिरन्नकोडी अद्वैव अणूणगा सयसहस्सा। सूरोदइमाईउं दिज्जइ जा पाउरा सा ओ ॥१॥
[आचाराङ्ग:-११३/आवश्यकनियुक्ति:-२१७] .. तथा च-'तिन्नेव य कोडिसया, अट्ठासीअं च हुंति कोडीओ। ..
असीइं च सयसहस्सा एवं संवच्छरे दिन्नं. ॥१॥ [आचाराङ्गः-११४] एतच्च नियतं दानं, अनियतं तु धन-कनक-सुवर्ण-रत्न-मणि-गजाऽश्वादि यद् येन वाञ्छितं तस्मै तद् दत्तमपि । सुरनरपरिकृतबहुविधतीर्थजलस्नपन: सुरविलेपनविलिप्तः रुचिरालङ्कारधरः चतुभिर्देवानां निकायैःसमूहैर्भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकलक्षणैः समनुगतः-परिवृतः चन्द्रप्रभानाम्न्यां शिबिकायां-सहस्रजनवाह्यविमानाकारराजवाहनविशेषे समारुढ इति गम्यं, तस्याः प्रमाणं तु- .
‘पन्नासं आयामा धणूणि विच्छिन्न वीसं तु । छत्तीस उच्छिट्ठा सीविया चंदप्पहा भणिया ॥१॥' [ ]
इति मार्गशीर्षे मासे कृष्णादशम्यां, अपराह्ने-चरमपौरुष्यां, प्रथमे वयसि-कौमारे, षष्टेन तपसा, ज्ञातखण्डनाम्नि वने, एकाकी त्वं, प्रव्रजितोगृहस्थधर्मान्निर्गत:-श्रमणीभूत इति यावदिति गाथात्रयार्थः ॥१८-२०॥
तदा भगवतश्चतुर्थं मनःपर्यवज्ञानमुत्पन्नंयदुक्तं - तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरित्ते, चउणानी जाव छउमत्था ॥१॥ इति
[आवश्यकनियुक्ति:-११०] ततो दीक्षा प्रतिपत्तिसमये इन्द्रेण वामस्कन्धापितं देवदूष्यं भगवांस्तदैवाऽतियाचमानाय पितृमित्राय सोमनाम्ने द्विजायाऽनुकम्पया स्फाटयित्वाऽर्धं ददौ । तदर्धं स्वामी हिंसाचरणधर्मव्यवस्थापनार्थं स्वांऽशदेश एवाऽस्थापयत् । ततो विहरतः प्रथमरात्रिवृत्तमाहुः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org