________________
परिशिष्ट - 'क'• २९९ कम्मारगामबाहिं वयपढमनिसाइ एइ किर सक्को । वारइ गोपं वागरइ निरुवसग्गं करे भंते ! ॥२१॥ तमणित्थिय तह नित्थियमइणो विहरंति कुल्लयग्गामे । बलभवणे बीयदिणे पारणयं पायसेणऽसि ॥२२॥ युग्मम् ॥
कर्मारग्रामात् बहि: स्वामी व्रतस्य प्रथमनिशायां स्थितः तत्र 'एइ'त्ति - आगच्छति, किलेत्याप्रोक्तौ, शक्र इन्द्रः, वारयति दाम्ना प्रभुं जिघांसुं गोपालं व्याकरोति-विज्ञपयति- भदन्त ! निरुपसर्गं करोमि द्वादशाब्दानि तवोपसर्गा भविष्यन्ति तान् सर्वान् वारयामीति' ॥२१॥
'तमणित्थिय'त्ति - तत् शक्रवचनं अनीष्ठित्वा-अमानयित्वा, 'अर्हन्तो हि श्रेयः प्राप्तौ कृतोद्यमा न क्वचित् साहाय्यमपेक्षन्त' इति तव निश्चितमर्तेविहरतः कोल्लाकग्रामे, बलनाम्ना ब्राह्मणस्य भवने आवश्यकादौ तु बहुलब्राह्मणगृहे इति, दिक्षादिनात् द्वितीय दिने प्रथमं पारणकं पायसेन परमान्नेन तवासीदिति । तच्च सपात्रधर्मप्रज्ञापनार्थं पात्र एव कृतवांस्ततः परं यावज्जीवं पाणिपात्रो भगवानित्याम्नाय इति गाथा द्वयार्थः ॥२२॥
अथानुकूल-प्रतिकूलोपसर्गान् भगवतः प्राहु:सुरकयविलेवणाइ वि सहियचउमासिमासिते दुहयं । भमराइकइत्थण-तरुणपत्थण त्थीजणब्भत्थणओ ॥२३॥
दीक्षाक्षणे सुरैर्देवैः कृतं विलेपनाद्यपि, ते-तव, साधिकां चतुर्मासी यावत् दुःखदायकमासीत् । यद्विलेपनादिकं सुखकार्यायैव भवति, तदपीत्यपेरर्थः कुतो दु:खदायकमासीदिति, हेतुत्रयमाहुः- भमराइकइत्थणे'त्यादि विलेपनसौरभाकृष्टभ्रमरादिकदर्थनात्, ग्राम्यतरुणैस्तथाविधविलेपनप्रार्थनात्, तरुणस्त्रीजनेनाऽभ्यर्थनाच्चेति गाथार्थः ॥२३॥
अथ साधिकमासाऽन्वितसंवत्सरादूर्ध्वं दक्षिणचावालाऽऽसन्नसुवर्णकूलानदीपुलिनवर्तितरुकण्टके विलग्य देवदूष्यार्धे पतिते भगवान् सिंहावलोकनेन. तदद्राक्षीत् । ममत्वेनेत्यके, स्थण्डिले पतितमस्थण्डिले वेत्यन्ये, सहसाकारेणेत्यपरे, तत्कण्टकलग्नं दृष्ट्वा वृद्धवादेन भावः-स्वसन्ततः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org