________________
३०० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः कषायबाहुल्यात् कण्टकप्रायतामाकलय्य निर्ममतया पुनर्न जग्राह, ततः परं भगवानचेलकोऽजनि । कण्टकलग्नं तत् तेनेव सोमद्विजेन लज्जाया पुनर्मागितुमशक्तुवता भगवतः पृष्ठलग्नेन वर्षं यावत् भ्राम्यता तदा ग्रहीतमित्यादि सम्प्रदायगम्यं परित्यज्य प्रतिकूलोपसर्गान् प्रतिपादयन्तो भगवच्चारितमाहुः
पडिकूलसूलपाणिं चंडक्कियचंडकोसियमहिं च । अगणिय नियतणुपीडं पडिबोहिय संतु मे भवयं ॥२४॥..
प्रतिकूलशूलपाणिं यक्षं ब्रह्मशान्तिनाम्ना प्रसिद्धं च पुनश्चण्डक्रियंकूरकर्माणं चण्डाकृति वा चण्डकौशिकं अहिं सर्प हे भगवन् ! त्वं निजतनुपीडां अगणयित्वा प्रतिबोधितवानिति गाथार्थः ॥२४॥
एगरयणीइ वीसं च्छहिं मासेहिं विविहउवसग्गे। ..
तह करिय हरियसुरसग्गसंगमो संगमो जाओ ॥२५॥ एकस्यां रात्रौ विंशतिमुपसर्गान्
'धूली १ पिपीलिआओ २ उदंसा ३ तहय चेव उण्होला ४ । विच्छू य ५ नउला ६ सप्पा ७ मूसगा ८ चेव अट्ठमया ॥१॥ हत्थ ९ हत्थिणियाओ १० पिसायए ११ घोरुववग्गेय १२ । थेरा १३ थेरी १४ सूउ १५ आगच्छइ पक्कणो य १६ तहा ॥२॥ खरवाय १७ कलकलिया १८ कालचक्कं तहेव य १९ । पाभाईय उवसग्गे वीस इमे तहय अणुलोमे २०॥३॥ [आव०-४०२-४०४]
इत्येतान् तदनु षण्मासान् यावद् विविधान्-नाना प्रकारानुपसर्गाननेषणादींस्तव कृत्वा हृतो-निवारितः सुरस्वर्गयोः सङ्गमो यस्य स हृतसुरस्वर्गसङ्गमः एवंविधः सङ्गमकनामा देवो जात इति गाथार्थः ॥२५॥
कन्नेसु कडसलागापवेसगे अभिनिवेसगे गोवे । खरगे यत दुद्धरगे तुह तुल्ला चेव मणवित्ती ॥२६॥
व्याख्या - 'कन्नेसु'त्ति द्विवचने बहुवचनं प्राकृतत्वात् । कर्णयोः काष्टशलाकाप्रवेशके काष्टशलाकाक्षेपकेअभिनिवेशके सकोपगोपाले तदुद्धर्तरिकाष्टशलाकानिष्काशके मध्यमपुरीवास्तव्ये सिद्धार्थे वणिक्पुत्रे खरकाख्ये वैद्ये
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org