Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 333
________________ २९६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः यस्या सा हस्तोत्तरा-उत्तरफाल्गुनी तस्यां कृतं कल्याणपञ्चकं येन स तथा तत्सम्बोधनम् । तथा वक्ष्यमाणगर्भाऽपहारादिलक्षणमाश्चर्यभूतं चरितं यस्य स तथा तत्सम्बोधनं हे आश्चर्यचरित ! ततस्तस्माद् देवानन्दोदरात् जने-लोके, ज्ञाता-विख्याता, जनज्ञातास्ते च ते ज्ञातवंशोद्भवाः क्षत्रियास्तेषु प्रसिद्धः सिद्धार्थपार्थिवः तस्य प्रियायाः, श्रीचेटकनृपभगिन्याः, त्रिशलादेव्याः कुक्षौ, शक्रभणितेनेन्द्रादिष्टेन हरेरिन्द्रस्य निगमं - आदेशमिषतीच्छतीत्येवं शीलो हरिणैगमेषी, पदात्यनीकाधिपतिर्देवविशेषः, तेन. गर्भविनिमयं-गर्भपरावृत्ति कृत्वा त्रिशलागर्भस्थां कन्यां देवानन्दोदरे क्षिप्त्वेत्यर्थः । अश्वयुक्कृष्णत्रयोदशीनिशायां हे नाथ ! त्वं संहृतः-प्रवेशित इति गाथात्रयार्थः ॥११-१३॥ अत्र भगवतो गर्भे संलीनताऽवस्थानं पित्रोः प्रीतये पुनः स्फुरणं आहुः-- 'सत्तमम्मि मासे गब्भत्थो चेवभिग्गहं गिण्हे। नाहं समणो होहं अम्मा-पियरम्मि जीवंते ॥१॥' इत्यादिकं च वाच्यम् ।। अथ जन्मकल्याणकमुच्यतेखत्तियकुंडग्गामे जाओ चित्तसियतेरसिनिद्धे । कासवगोत्तो कणगाभ कन्नरासीइ सीहंको ॥१४॥ क्षत्रियकुण्डग्रामे चैत्रशुक्लत्रयोदशीनिशाः कन्याराशौ काश्यपगोत्रः कनकाभः-स्वर्णवर्णः सिंहाङ्क:-सिंहलाञ्छनस्त्वं जातो-गर्भान्निःक्रान्तो-जनित इति गाथार्थः ॥१४॥ अथ भगवतो नामकरणं दर्शयन्ति जणचिंतामणि तुमए अवयन्ने रयण-जण-धण-कणेहिं । वड्डित्था नायकुलं ति वद्धमाणु त्ति तोसि फुडं ॥१५॥ जनचिन्तामणौ त्वयि अवतीर्णे ज्ञातकुलं रत्न-जन-धन-धान्यैः अवद्धिष्ट इति हेतोर्मातृ-पितृदत्तः वर्द्धमानः इतिनामा त्वमसि स्फुटमिति गाथार्थः ॥१५॥ अथ भगवतो द्वितीयं देवैः कृतं नाम प्ररूपयन्तितं जम्ममज्जणखणम्मि सक्ककुवियप्पसंकुमुक्खणिउं । जेण महंतमवि गिरिमीरित्थ तओ महावीरो ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360