Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
परिशिष्ट - 'क' • २८१
अथ मनः पर्यवज्ञानोत्पत्तिकालसूचनापूर्वं ज्ञानोत्पत्तिकाल - प्रथम
पारणास्वरूपं निरूपयन्ति
सज्जो संजायचउत्थनाण ! तुह मंदिरे पुरे भमओ । बीयदिणे परमन्नं पारणमासी सुमित्रे ॥ २५ ॥ सद्यस्तत्कालं- दीक्षाक्षण एव, हे सञ्जातचतुर्थज्ञान! यदुक्तमावश्यके'तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडिवन्नम्मि चरित्ते, चउनाणी जाव छउमत्था ॥१॥ इति ।
[आवश्यकनिर्युक्तिः- ११०] तव मन्दिरनाम्नि पुरे भ्रमतो - भिक्षार्थं पर्यटतः, दीक्षादिनात् द्वितीयदिने सुमित्रस्य गृहे परमान्नेन पारणमासीत् । प्राकृतत्वाद् विभक्तिव्यत्ययः । इति गाथार्थः ॥२५॥ अथ ज्ञानकल्याणकं प्रकटयन्ति -
-
वरिसे गयम्मि छद्वेण तुज्झ पोससियनवमिपुव्वने । सहसंबवणे केवलमुप्पन्नं नंदिरुक्खतले ॥ २६ ॥
दीक्षाकालाद् वर्षे गते सति षष्टेन तपसा तव पौषशुक्लनवम्यां पूर्वाहने सहस्राम्रवने केवलज्ञानमुत्पन्नं नन्दिवृक्षतले इति गाथार्थः ||२६|| अथ समवसरणे चतुर्विधसङ्घस्थापनां प्रज्ञापयन्तितक्खण खुभियाखिलसुरनिकायकयपढमसमवसरणठिओ । छत्तीसगुणधरे गणहरे य गणे कासि छत्तीसं ॥२७॥
तत्क्षणक्षुभिताऽखिलसुरनिकायकृतप्रथमसमवसरणस्थितः षट्त्रिंशत्गुणधरान् गणधरानाचार्यान् गच्छाधिपतीन् श्रीचक्रायुधादीन् च पुनः षट्त्रिंशद्गुणान् गच्छान्-एकवाचनिकान् साधुसङ्घातान् अकार्षीस्त्वमिति शेष इति गाथार्थः ॥२७॥
साहु सहस्सा बिसठ्ठी चउसयहीणा य साहुणीणं । ते समणोवासगलक्खा दुन्नि य नवईसहस्सजुया ॥ २८ ॥ तिनवइसहस्स सहिया लक्खा तिन्नेव देव ! सड्डीणं । चउदसपुव्वीण सयाणि अट्ठ वाईण तिगुणाणि ॥ २९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360