Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 324
________________ परिशिष्ट - 'क'२८७ साध्वीनां पुष्पचूलाप्रमुखाणां अष्टत्रिंशत् सङ्ख्याः । चतुःषष्टिसहस्रा इत्यनुवर्तते एकं च लक्ष चतुःषष्टिसहस्राधिकं लक्षमेकमित्यर्थः (१६४०००) सम्यक्त्वप्रधानैर्ऋतैराढ्यानां श्राद्धानां सुव्रतादीनां, 'सम्मवियट्टाण' इति पाठे सम्यग्विदग्धानाम् ॥१०॥ जिनमतेन भावितानां-वासितानां श्राविकानां सुनन्दाप्रमुखाणां लक्षत्रिकं सप्तविंशतिसहस्रयुतं (३२७०००) इति चतुर्विधं तीर्थं-सद्धं त्वमकार्षीः । कथम्भूतं तीर्थं ? भवजलाब्धौ बोहित्थं-प्रवहणमिति गाथा द्वयार्थः ॥११॥ अथ तत्रैव विशेषमाहुः- . अधुठसया चउदसपुव्वीणं चउगुणोहिनाणीणं । वाईणच्छस्सया णुत्तरोववाईण ते दुगुणा ॥१२॥ केवलिजिणाणं दस विउलमइजिणाणं तु सत्त सद्धाणि । वेउव्वीणिक्कारस सयाणि तुह सुमुणिपरिवारो ॥१३॥ युग्मम् ।। अद्भुठसया इति सार्द्धानि त्रीणिशतानि चतुर्दशपूर्विणाम् । चतुरगुणानिचतुर्दशशतानि (१४००) इत्यर्थः अवधिज्ञानिनाम् । तथा वादिनां षट्शतानि, ते च वादे देवैरप्यजेया ज्ञेयाः । तथाऽनुत्तरोपपातिनां तानि षट्शतानि द्विगुणानिद्वादशशतानीत्यर्थः ॥१२॥ केवलिजिनानां दशशतानि । शतानीति सर्वत्र योगः । विपुलमतिजिनानांमनःपर्यवज्ञानिनां तु सप्तशतानि सार्द्धानि (७५०) । तथा वैक्रियलब्धिवतां एकादशशतानि । तव सुमुनीनां प्रधानसाधूनां परिवारोऽभूदिति शेष इति गाथार्थः ॥१३॥ अथाऽपश्चिमं मोक्षकल्याणकं भणन्ति रायपसेणइ पणमिय विसाहरिक्खभव पंचकल्लाण ! । वरिससयाउ य तित्तीसमुणिजुओ दिवसपुव्वद्धे ॥१४॥ वाघारियपाणी मासिएण सावणसियट्ठमीए तुम । सम्मेयंपव्वए जिणवल्लह सिवसोक्ख पत्त जय ॥१५॥ युगलकम् ॥ हे राजप्रसेनजित्प्रणमित ! एतदुपलक्षितौ तीर्थविघ्नहरौ यक्ष-यक्षिण्यौ ज्ञेयौ । तयोः स्वरूपं यथा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360