Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
परिशिष्ट - 'क' • २८५
पित्रोर्मनसः प्रियोऽभीष्टस्तत् सम्बोधनं, त्वं प्रियङ्गुवर्ण उत्पन्नो-जात इति गाथार्थः ॥३॥ अथ गृहवासस्थितिकालमानं भणन्ति - . वितिमिरतिनाणनयणो नवहत्थपसत्थलक्खणसरीरो । वसिओऽसि तीसवरिसे कुमरत्ते रज्जसुहविमुहो ॥ ४ ॥ वितिमिराणि-निर्मलानि त्रीणि ज्ञानानि -मति - श्रुता - ऽवधिलक्षणानि नयनानि-लोचनानि इव यस्य स वितिमिरत्रिज्ञाननयनः । तथा नवहस्तं - नवहस्तप्रमाणं प्रशस्तलक्षणं सामुद्रिकानुसारिसाष्टसहस्रलक्षणोपेतं शरीरं यस्य स । तथा एवं विभो ! त्वं उषतोऽसि त्रिशतवर्षान् कुमारत्वे राजस्य सुखे विमुखः - पराङ्मुख इति गाथार्थः ॥४॥
अथ भगवतः परमकारुणिकतां कथयन्ति
मुणिय वि नियमावयं कुपहमोहमहणाय सयलजणपुरओ । कमठं धरिसि तु फुडं होसि तुमं परमकारुणिओ ॥५॥
'मुणिय'त्ति ज्ञात्वा 'ज्ञो जाण - मुणाविति मुणादेशः ' अपेर्गदम्यमानत्वात् ज्ञात्वाऽपि विदित्वाऽपि, निजां आपदं कमठकृतमहाजलोपसर्गसंसर्गरूपां, कुपथे कुमार्गे कमठमुनिविधीयमानपञ्चाग्निसाधनालक्षणे यो मोहो जनानां विपरीतज्ञानं सुमार्गताऽपरिज्ञानरूपं तस्य मथनाय - निराकरणार्थं न तु द्वेषात् कमठं तापसं धर्षित्वा अज्ञानिनं प्रकाश्य ज्वलन्तपन्नगप्रकाशनपूर्वं कमठतपसो दुष्टत्वं स्पष्टयित्वेत्यर्थः । स्फुटं प्रकटं, 'होसि 'त्ति अभवस्त्वं परमकारुणिकः । एतदर्थप्रकाशिका भगवतः स्तुतिश्च
वह्निज्वालाऽवलीढं कुमथमथनधीर्मातुरस्तोकलोक
स्याऽग्रे सन्दर्श्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः ।
यः कारुण्याऽमृताऽब्धिर्विधुरमपि किल त्वस्य सद्यः प्रपद्य,
प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥१॥ [स्रग्धरा] इति गाथार्थः ॥५॥
अथ दिक्षाकल्याणकं छद्मस्थपर्यायप्रमाणं चाहुःसिवियाए विसालाए, आसमपयवणे असोगतले । पोसबहुलक्कारसि पुव्वण्हे अट्ठमतवेण ॥ ६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360