Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 328
________________ परिशिष्ट - 'क' • २९१ 'पापोऽहं' । 'तहि किं भवद्दर्शने नाऽऽस्त्येव धर्म: ?,' तदा च 'वरं मे सहायोऽयमेव भूयादिति' बुध्या- 'तत्राऽपि धर्मोऽस्ति मम मतेऽपि किञ्चित् धर्मोऽस्ती'त्यनेनोत्सूत्रलेशदर्शनेन कृतमुपार्जितं सागरोपमकोटाकोटिर्भवे संसारे भ्रमणं-पर्यटनं येन स तथा । 'तह' इति ' तथा ' शब्दोऽत्रानुक्ताऽन्तरभवसमुच्चयार्थः ते चैवं - मरीचिश्चतुरशीति पूर्वलक्षायुः समये मृत्वा, चतुर्थे भवे ब्रह्मलोके दशसागरोपमायुर्देवोऽभवत् । ततश्च्युत्वा, कोल्लाकसन्निवेशे कौशिकाभिधः विप्रोऽशीतिपूर्वलक्षायुः प्रान्ते त्रिदण्डित्वं श्रित्वा, मृत्वा भ्रान्त्वा च भूरिभवं तिर्यग्-नर-नारका - ऽमरभूरिभवान्, ततः स्थूणसन्निवेशे पुष्पमित्राऽऽख्यो द्वयसप्ततिपूर्वलक्षायुर्द्विजोऽजनि । स प्रान्ते त्रिदण्डित्वेन मृत्वा मध्यमायुः सौधर्मसुरोऽभूत् । ततश्च्यूतश्चैत्याख्ये सन्निवेशेऽग्न्युद्योतो द्विजश्चतुःषष्टिपूर्वलक्षायुः प्रान्ते त्रिदण्डत्वेन मृत्वा ईशाने कल्पे मध्यमायुर्देवोऽभूत् । ततश्च्युतो मन्दिराख्यो सन्निवेशे षट्पञ्चाशत् पूर्वलक्षायुरग्निभूतिनामा द्विजः । प्रान्ते पारिव्रज्यं श्रितो, मृतः सनत्कुमारो कल्पे मध्यमायुः सुरोऽजनि । ततश्च्युत्वा श्वेतव्यां चतुश्चत्वारिंशत्पूर्वलक्षायुः द्विजः । प्रान्ते परिव्राट् भूत्वा, माहेन्द्रे कल्पे मध्यमायुरमरोऽभूत् । ततश्च्युत्वा भवं भ्रान्त्वा, राजगृहे चतुस्त्रिंशत् पूर्वलक्षायुः स्थावराख्यो द्विजो । प्रान्ते वयसि त्रिदण्डीभूय, मृत्वा बह्मलोके मध्यमायुर्देवः । ततश्च्युत्वा बहून् भवान् बभ्राम । इश्च राजगृहेश्वरो विश्वानन्दी राजाऽऽसीत् । तत्पुत्रो विशाखानन्दीनामा | अस्य राज्ञोऽनुजो विशाखाभूतिर्युवराजः । तस्य प्रिया धारिणी तयोस्तनयो विश्वभूतिर्जातो मरीचिजीवः । क्रमात् प्राप्तयौवनः पुष्पकरण्डके वने स्वान्तःपुरपुरन्ध्रीभिः सार्द्धं साक्षात् स्मर इव क्रीडते । अन्यदा विशाखानन्द्यपि क्रीडनेच्छया तद्वनं ययौ । वनान्तर्वर्तमानं विश्वभूति मत्वा वनाद् बहिः कृतावासो राजकुमारो राज्ञ्यै न्यवेद्य, ततो राजा तदीप्सितकृते मायया सभामध्ये इत्यवादीत् - 'पुरुषसिंहोऽस्मदाज्ञामन्योऽपि सम्प्रति न मन्यते तं जेतुं यामः ।' इति यात्राभेरीमवादयत् । ततो विश्वभूतिरेतन्निशम्य क्रीडावनादागत्य नृपं निवार्यार्यस्तज्जायाशया स्वयं प्रयाणं चक्रे । यावत् प्राप्तः पुरुषसिंहं तं चाऽऽज्ञानुवर्तिनं ज्ञात्वा ववले । आगत्य भूपतये तद्दत्तं प्राभृतं चाऽर्पयत् । तत Jain Education International For Personal & Private Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360