SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - 'क' • २८५ पित्रोर्मनसः प्रियोऽभीष्टस्तत् सम्बोधनं, त्वं प्रियङ्गुवर्ण उत्पन्नो-जात इति गाथार्थः ॥३॥ अथ गृहवासस्थितिकालमानं भणन्ति - . वितिमिरतिनाणनयणो नवहत्थपसत्थलक्खणसरीरो । वसिओऽसि तीसवरिसे कुमरत्ते रज्जसुहविमुहो ॥ ४ ॥ वितिमिराणि-निर्मलानि त्रीणि ज्ञानानि -मति - श्रुता - ऽवधिलक्षणानि नयनानि-लोचनानि इव यस्य स वितिमिरत्रिज्ञाननयनः । तथा नवहस्तं - नवहस्तप्रमाणं प्रशस्तलक्षणं सामुद्रिकानुसारिसाष्टसहस्रलक्षणोपेतं शरीरं यस्य स । तथा एवं विभो ! त्वं उषतोऽसि त्रिशतवर्षान् कुमारत्वे राजस्य सुखे विमुखः - पराङ्मुख इति गाथार्थः ॥४॥ अथ भगवतः परमकारुणिकतां कथयन्ति मुणिय वि नियमावयं कुपहमोहमहणाय सयलजणपुरओ । कमठं धरिसि तु फुडं होसि तुमं परमकारुणिओ ॥५॥ 'मुणिय'त्ति ज्ञात्वा 'ज्ञो जाण - मुणाविति मुणादेशः ' अपेर्गदम्यमानत्वात् ज्ञात्वाऽपि विदित्वाऽपि, निजां आपदं कमठकृतमहाजलोपसर्गसंसर्गरूपां, कुपथे कुमार्गे कमठमुनिविधीयमानपञ्चाग्निसाधनालक्षणे यो मोहो जनानां विपरीतज्ञानं सुमार्गताऽपरिज्ञानरूपं तस्य मथनाय - निराकरणार्थं न तु द्वेषात् कमठं तापसं धर्षित्वा अज्ञानिनं प्रकाश्य ज्वलन्तपन्नगप्रकाशनपूर्वं कमठतपसो दुष्टत्वं स्पष्टयित्वेत्यर्थः । स्फुटं प्रकटं, 'होसि 'त्ति अभवस्त्वं परमकारुणिकः । एतदर्थप्रकाशिका भगवतः स्तुतिश्च वह्निज्वालाऽवलीढं कुमथमथनधीर्मातुरस्तोकलोक स्याऽग्रे सन्दर्श्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः । यः कारुण्याऽमृताऽब्धिर्विधुरमपि किल त्वस्य सद्यः प्रपद्य, प्राज्ञैः कार्यं कुमार्गस्खलनमिति जगादेव देवं स्तुमस्तम् ॥१॥ [स्रग्धरा] इति गाथार्थः ॥५॥ अथ दिक्षाकल्याणकं छद्मस्थपर्यायप्रमाणं चाहुःसिवियाए विसालाए, आसमपयवणे असोगतले । पोसबहुलक्कारसि पुव्वण्हे अट्ठमतवेण ॥ ६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy