SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८४ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः ३. श्रीपार्श्वनाथचरित्रम् ॥ अथ कुपथकदलीकदम्बकमथहस्तिनाथस्य श्रीपार्श्वनाथस्य चरित्रं विधीयते तस्य चेत्थं प्रथमगाथामाहुः गुणमणिनिहिणो जस्सुवरि फणिफणा रक्खगा इव फुरंति । तं पासजिणं पणमिय तस्सेव थुणामि चरियलवं ॥१॥ व्याख्या - गुणा एव मणयस्तेषां निधेनिधानस्य यस्य भगवत उपरिमस्तकस्योपरि फणिनो धरणेन्द्रस्य फणाः स्फुरन्ति शोभन्ते । तथा चाहु: स्वप्ने सप्तफणं ददर्श जननी यत्रोरगं गर्भगे, मूर्ध्याध्याज्जलवर्षणा फणिपतिः छत्रं सहस्रस्फुटं। तापोऽच्छादविधो तदेव नवभिस्तत्यंवभिः क्रीडने (?), . यस्याऽसौ त्वरितं ददात्वभिमतं श्रीपार्श्वनाथः प्रभुः ॥१॥ [शार्दूल०]. इति उत्प्रेक्षते रक्षका इव-रक्षपाला इव । किल निधेरुपरि रक्षपालाः सर्पाः स्फुरन्ति । तं पार्श्वजिनं प्रणम्य प्रकर्षेण नत्वा, तत्राऽस्मिन् भगवति गर्भगते सति शयनस्थिता जननी तमसि सर्पन्तं कृष्णसर्प पश्यति स्मेति पार्श्वः । तं पार्श्वनाथं प्रणम्य तस्यैव श्रीपार्श्वनाथस्य स्तौमि चरितलवं-चरित्रलेशमिति गाथार्थः ॥१॥ अथ प्रतिज्ञातमेव प्रतन्वन्तः प्राहुःपणयकप्पे अस्थिय वीसं अयरोवमे इहाऽऽइण्णो । वाणारसीए तं जिण ! कसिणचउत्थीए चेत्तम्मि ॥२॥ हे जिन ! त्वं प्राणतकल्पे-प्राणतदेवलोके, विंशतिसागरोपमाणि 'अत्थिय'त्ति अवस्थाय-स्थित्वा, इह भारते अवतीर्णः वाणारस्यां नगर्यां, कदा? चैत्रे मासे कृष्णचतुर्थ्यां, चतुर्दशस्वप्नलाभादिषु सत्सु। एतेन गर्भावतारकल्याणकमुक्तमिति गाथार्थः ॥२॥ अथ जन्मकल्याणकमाहुः पोसेऽसियदसमीए कासवगोत्तो तुलम्मि रासिम्मि । वम्माऽससेणमणपिय पियंगुवन्नो तमुपन्नो ॥३॥ पोषस्य मासस्य असितायां कृष्णायां दशम्यां, काश्यपगोत्रः, तुलायां राशौ, हे वामाऽश्वशेनयोर्मन:प्रिय ! तत्र वामा राज्ञी, अश्वसेनो राजा तयोर्माता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy