________________
२८६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः निवतिसयजुओ पढमे वयम्मि पव्वइय एगदूसेण। .... चुलसीइ क्षिणे चउनाण संजुओ विहरिओ तं सि ॥७॥ युग्मम् ।।
शिबिकायां विशालानाम्न्यां, आरूढ इति शेषः, आश्रमपदनाम्नि वने-उद्याने, अशोकतरोस्तले, पौषे मासे, बहुलैकादश्यां-कृष्णैकादशीदिने पूर्वाह्न प्रथमपौरुष्यां, अष्टमेनोपवासत्रयरूपेण तपसा नृपाणां त्रिभिः शतैर्युतः-सहितः, नृपविशेषयुतः, प्रथमे वयसि-कौमारे प्रव्रज्य-दीक्षां प्रतिपद्य, एकेन देवदूष्येणालङ्कृतः, व्रताऽनन्तरः चतुरशीतिं दिनान् यावच्चतुर्ज्ञानसंयुतस्त्वं विहृतोऽसि इति गाथा द्वयार्थः ॥६-७॥ अथ प्रथमपारणकस्वरूपमाहुः
पव्वज्जाबीयदिणे कोयगगडपुरम्मि पायसेण तुमं । पारावि तस्स फुडं जायं धन्नस्स धन्नत्तं ॥८॥
प्रव्रज्यातो द्वितीयदिने कौतुककृतपुरे पायसेन परमान्नेन त्वां पारयतो धन्यस्य-धन्यनाम्नो धन्यत्वं-सुकृतित्वं स्फुटं-प्रकटं जातं लोके इति शेष, इति गाथार्थः ॥८॥ अथ केवलज्ञानोत्पत्तिस्वरूपं प्ररूपयन्ति
अह अट्ठमभत्तंते पुव्वर्ने किण्हचित्तचोत्थीए । उप्पन्नं धायइतरुतलम्मि तुह केवलं नाणं ॥९॥
अथेति दीक्षातश्चतुरशीतिदिनान्तरं अष्टमभक्ताऽन्ते मतान्तरे षष्टभक्ताऽन्ते इत्यपि पूर्वाह्न-प्रथमपौरूष्यां, कृष्णायां चैत्रचतुर्थ्यां, उत्पन्नं-सञ्जातं, धातकीतरुतले तव केवलज्ञानं अप्रतिपात्यनन्तवस्तुविषयं ज्ञानमिति गाथार्थः ॥९॥ अथ चतुर्विधसङ्घस्य स्वरूपं प्राहु:
तो साहुण सहस्से सोलस ते साहुणीणं अडतीसं । चउसट्ठिमेगलक्खं सम्मवयड्डाण सड्डाण ॥१०॥ जिणमयभाविय साविय लक्खतिगं सत्तवीससहसजुयं । तुममिय चउविहतित्थं अकासि भवजलहि बोहित्थं ॥११॥ युग्मम् ॥
श्रीपार्श्वनाथस्य श्रीआवश्यकादौ-दशगणधरा गच्छाश्च श्रीस्थानाङ्गे-त्वष्टौ । तत्र द्वावल्पायुष्कत्वान्नोक्ताविति वृद्धाः । इदं वाऽत्र स्वयमभ्यूह्यन्त नः केवलोत्पत्तेस्तु साधूनां आर्यदिन्नप्रमुखाणां सहस्राः षोडश । ते सहस्राः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org