Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 316
________________ परिशिष्ट - 'क' . २७९ चक्कट्ठपइट्ठाणा अट्ठसेहा नव य विक्खंभे । बारस दीहा मंजूससंठिया जन्हवीयमुहे ॥२॥' [स्थानाङ्गसूत्र-१२१] इति गाथार्थः ॥१७॥ जक्ख सहस्सा सोलस तदुगुणा मुउडमद्ध नरवइणो । तद्दगुणा रमणीओ, आणाणुगया तुह अहेसि ॥१८॥ यक्षाणां सहस्राः षोडश ते च द्वयोः स्कन्धयोश्चतुर्दशरत्नानां प्रत्येक सहस्रमधिष्ठातारो ज्ञेयाः । तेभ्यो द्विगुणाः द्वात्रिंशत्सहस्राः मुकुटबद्धनरपतयः । तेभ्यो द्विगुणाश्चतुःषष्टि सहस्रा रमण्यः आज्ञामनुगता-आज्ञाकारिणस्तवासन्निति गाथार्थः ॥१८॥ छन्नउइकोडीओ पायक्काण तह पवरगामाण । हय-गय-रहाण लक्खा पत्तेयं तुज्झ चुलसीई ॥१९॥ षण्णवतिकोट्यः पदातीनां । तथा षण्णवति कोट्यः प्रवरग्रामाणां अत्र करादिगम्यो ग्रामः वृत्या वृत्तो वा । तथा हय-गय-रथानां प्रत्येकं तव चतुरशीतिर्लक्ष आसन्नित्यध्याहार इति गाथार्थः ॥१९॥ बत्तीसबद्धनायड बत्तीससहस्सअभिणइज्जातो । तावइयजणवइपहू, अकासि नासियभयं भरहं ॥२०॥ द्वात्रिंशता पात्रैर्वरतरुणिभिर्बद्धानि-निष्पादितानि द्वात्रिंशद्भक्तिनिबद्धानीति वा यानि नाटकानि, तेषां द्वात्रिंशता सहस्रैरभिनीयमानो-अभिनयैः सेव्यमान, अभिनयविशिष्टैः नाटकैः सेव्यमान इत्यर्थः । तथा तावतांद्वात्रिंशत्सहस्राणां जनपदानां-देशानां प्रभुः त्वमिति शेषः । नाशितमपनीतं भयं यस्मात् तानि नासितभयं भरतं-भरतक्षेत्रमकार्षीरिति गाथार्थः ॥२०॥ कमसो चउदस-सोलस-वीसा-बावत्तरीय-नवनउई । संवाह-खडगा-गर-पुरवर-दोणमुह सहस्सा ते ॥२१॥ आसी तुह पत्तेयं मडंब-कव्वड सहस्स चउवीसा । दुगुणाणि पट्टणाणि य चउदसरयणेसर जिणेस ॥२२॥ युग्मम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360