Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
अथन
२७८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अथ नामकरणं सामर्थकमाहु:
गब्भगए चेव तए असिवोवसमो जओ जए जाओ। .
सुमरणमित्तेण विकुणसि संतिमिय नाम ते संती ॥१५॥ - गर्भगते एव त्वयि, अशिवोपशम:-सर्वोपद्रवनिर्वृतिः, यतो-यस्मात् कारणाज्जगति लोके जातः । तथा स्मरणमात्रेणापि करोषि शान्ति, किं पुनः पूजनादिना? इति हेतोस्ते-तव शान्तिरिति नामेति गाथार्थः। ... अथ विभागेनायुःप्रमाणमाहुः
पणवीस वाससहसा कुमरत्ते मंडलित्ति चक्कित्ते । समणत्ते य तुह गया पत्ते पुण चक्कवट्टिपए ॥१६॥
पञ्चविंशतिवर्षसहस्राः प्रत्येकं कुमारत्वे मण्डलिकत्वे चक्रित्वे श्रमणत्वे च तव गताः-समतिक्रान्ताः । एतेन वर्षलक्षमतिक्रान्तमिति सर्वायुर्भणनम् । अथ तत्रैव विशेषमाहुः-प्राप्ते समुदीर्णाभोग्यतयोपस्थिते पुनश्चक्रवंतिपदे इति अग्रेतनगाथया योज्यमिति गाथार्थः ॥१६॥ ,
जाया ते नवनिहिणो चक्कट्ठपइट्ठ जोयणट्टच्चा । . बारस-नवजोयणदीह-वित्थडा निहिसनामसुरा ॥१७॥ जातास्ते-तव नवनिधयः
'नैसप्पिः १ पाण्डुक २ श्चाऽथ, पिङ्गलः ३ सर्वरत्नकः ४ । महापद्म ५ काल ६-महाकालौ ७ माणव ८-शङ्खकौ ९ ॥१॥' इति
किं विशिष्टा ? इत्याहुः-अष्टसु चक्रेषु प्रतिष्ठाऽवस्थानं येषां ते अष्टचक्राप्रतिष्ठाः । सूत्रे प्राकृतत्वात् 'चक्र' शब्दस्य पूर्वनिपातः । तथा अष्टयोजनोच्चाः, तथा यथाक्रमं द्वादशनवयोजनदीर्घविस्तीर्णाः, अयमर्थ:-द्वादशयोजनानि दीर्घाः नवयोजनानि विस्तीर्णाः । तथा निधिभिः समाननामानः-सदृशाभिधानाः सुरा अधिष्ठायकाः येषां ते निधिसनामसुराः तथा चोक्तं'पुर १ कण २ भूसण ३ रयणाण ४ वत्थ ५ सिप्पा ६ गराण ७ सत्थाणं ८ ॥ नायड ९ उप्पत्ति कमा सनामसुरऽधिट्ठियनिहीसु ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360