Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 319
________________ २८२ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः .. मणनाणि सहसचउरो ते तिसयजुया य केवलि जिणाणं । ओहिनाणि सहस्सा तिन्ने विउव्वीण ते दुगुणा ॥३०॥ तिसृभिः कुलकम् ।। साधुनां चक्रायुधादीनां सहस्रा द्वाषष्टिः । पुनस्ते द्वाषष्टिसहस्रांश्चतुःशतहीनाः (६१६००) एकषष्टिसहस्राः षट्शतानि भवन्ति साध्वीनां श्रीश्रुतिप्रमुखाणाम् । तथा श्रमणोपासकलक्षे द्वे एव नवतिसहस्रयुते (२९००००) इत्यर्थः ॥२८॥ त्रिनवतिसहस्रसहिता लक्षा तिस्र एव (३९३०००) हे देव ! श्राविकाणाम्। एतच्चतुर्विधं सङ्घ निरूप्य तत्रैव लब्धिविशेषवतां यतीनां सङ्ख्यां ख्यापयन्तिचतुर्दशपूर्विणामजिनानामपि जिनसङ्काशानामष्टौ शतानि । तथा सदैव मनुजाऽसुरायां पर्षद्यपराजितानां वादिनां त्रिगुणान्यष्टौ शतानि चतुर्विंशति शतानि (२४००) इत्यर्थः ॥२९॥ मनःपर्यायज्ञानिनां सहस्राश्चत्वारः ते पुनः ऊर्ध्वं यावज्ज्योतिश्चक्रश्चोपरितलं, तिर्यग् मनुष्यक्षेत्रस्यान्तं यावत्, अधस्त्वधोनामान्तं यावत्, संज्ञिपर्याप्तपञ्चेन्द्रियाणां मनोगतान् भावान् जानन्ति पश्यन्ति चेति ज्ञेयम् । ते चत्वारः सहस्रस्त्रिशतयुताश्च (४३००) केवलिजिनानाम् । तथा अवधिज्ञानिनां सहस्रास्त्रयः । वैक्रियलब्धिवतां ते त्रयः सहस्राद्विगुणा:-षट्सहस्राः (६०००) इत्यर्थ, इति तव परिवारोऽभूदित्यध्याहार्यमिति गाथा त्रयार्थः ॥३०॥ तथा चं तुह तित्थे विग्घहरा गरुडो जक्खो सुरा य निव्वाणी।। चउजामधम्मदेसग अमरिंद-नरिंदविंदनय ! ॥३१॥ हे चतुर्यामधर्मदेशक ! चत्वारो यामा-व्रतानि प्राणातिपात-मृषावादाऽदत्तादान-परिग्रहविरमणलक्षणानि यत्र स चाऽसौ धर्मश्च तं दिशतीति समाप्तः अबह्मणः परिग्रहान्तर्गतत्वेन अभणनात् । तथा हे अमरेन्द्रनरेन्द्रवृन्दनत ! तव तीर्थे शासने विघ्नहरौ गरुडो यक्षः, सुरा च-यक्षिणी च निर्वाणी अभूतामिति क्रियाध्याहारः । उक्तं च- ।। 'यक्षोऽभूद्गरुडाऽभिख्यः क्रोडाशः करिवाहनः । बिभ्राणो दक्षिणी पाणी, बीजपुराऽम्बुजाङ्कितौ ॥१॥ नकुलेनाऽक्षसूत्रेण प्रवणौ दक्षिणेतरौ। नीर्वाणी नाम्नी गौराङ्गी श्वेतपङ्केरुहासना ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360