Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 313
________________ २७६ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः घनरथनाम्नस्तीर्थङ्करस्य सुतो मेघरथनृपो भूत्वा पितुर्घनरथतीर्थङ्करस्य पार्श्वे प्राप्य चरणं-चारित्रं सञ्चित्योपार्ण्य तीर्थङ्कर-चक्रधरयोर्लक्ष्मीं ॥९॥ उत्पन्नः सर्वार्थसिद्धे विमाने, परमायुरुत्कृष्टायुः, तदनु हस्तिनागपुरे श्रीविश्वसेनराज्ञः प्रणयिन्याः, अचिरादेव्याः कुक्षौ - गर्भे ॥१०॥ चतुर्दशस्वप्नैः पिशुनितः सूचितः, मेषराशौ भरण्यां कृतानि पञ्चकल्याणानि येन स तथा भाद्रपदकृष्णसप्तमीनिशायां हे नाथ! त्वमवतीर्ण इति गाथात्रयार्थः ॥११॥ अथ भगवदवतारे यदभूत् तदाहु: अवयरिए तई पियरो समिच्च इंदेण सलहिया महिया । मायाऽऽसि गूढगब्भा गिहं च फुडबहुविहनिहाणं ॥१२॥ अवतीर्णे त्वयि माता-पितरौ समेत्याऽऽगत्य इन्द्रैः श्लाघितौं महितौ - पूजितौ । माता तदा गूढगर्भाऽलक्षितगर्भा आसीत् । च-पुनर्गृहं स्फुटानिप्रकानि, बहुविधानि - नानाप्रकराणि, निधानानि यत्र तत् तथा आसीदित्यनेन योग इति गाथार्थः ॥ १२॥ अथ जन्मकल्याणकं भणन्ति तो जेकसिणतेरसिरत्तीए कणयवन्नो हरिणको । कासवगत्ते जाओ चालीसधणूसियसरीरो ॥१३॥ ततः ज्येष्ठमासस्य कृष्णत्रयोदशीरात्रौ कनकवर्णः हरिणाङ्कः काश्यपगोत्रे जातः त्वमित्यध्याहार्य चत्वारिंशद्धनुरुच्छ्रितशरीरः । इदं चोत्तरकालापेक्षया विशेषणमिति गाथार्थः ॥१३॥ अथ जन्मकाले यज्जातं तदाहु: अह झत्ति जगुज्जोए जाए चलियासणा करे महिमं । छप्पन्नदिसि कुमारीओ तदणु चउसंठि सुरवइणो ॥१४॥ अथ जन्मानन्तरं झटिति जगदुद्योते जाते चलिताऽऽसनाः षट्पञ्चाशत् दिक्कुमार्यः कुर्वन्ति जन्ममहिमानम् । तदनु चतुःषष्टिः सुरपतयो जन्ममहिमानं कुर्वन्ति । एतच्चाऽतिसंक्षिप्तमुक्तं अतः किञ्चिद्विव्रियते - गजदन्तपर्वताधो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360