SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ अथन २७८ • श्रीनेमिनाथस्तोत्रसङ्ग्रहः अथ नामकरणं सामर्थकमाहु: गब्भगए चेव तए असिवोवसमो जओ जए जाओ। . सुमरणमित्तेण विकुणसि संतिमिय नाम ते संती ॥१५॥ - गर्भगते एव त्वयि, अशिवोपशम:-सर्वोपद्रवनिर्वृतिः, यतो-यस्मात् कारणाज्जगति लोके जातः । तथा स्मरणमात्रेणापि करोषि शान्ति, किं पुनः पूजनादिना? इति हेतोस्ते-तव शान्तिरिति नामेति गाथार्थः। ... अथ विभागेनायुःप्रमाणमाहुः पणवीस वाससहसा कुमरत्ते मंडलित्ति चक्कित्ते । समणत्ते य तुह गया पत्ते पुण चक्कवट्टिपए ॥१६॥ पञ्चविंशतिवर्षसहस्राः प्रत्येकं कुमारत्वे मण्डलिकत्वे चक्रित्वे श्रमणत्वे च तव गताः-समतिक्रान्ताः । एतेन वर्षलक्षमतिक्रान्तमिति सर्वायुर्भणनम् । अथ तत्रैव विशेषमाहुः-प्राप्ते समुदीर्णाभोग्यतयोपस्थिते पुनश्चक्रवंतिपदे इति अग्रेतनगाथया योज्यमिति गाथार्थः ॥१६॥ , जाया ते नवनिहिणो चक्कट्ठपइट्ठ जोयणट्टच्चा । . बारस-नवजोयणदीह-वित्थडा निहिसनामसुरा ॥१७॥ जातास्ते-तव नवनिधयः 'नैसप्पिः १ पाण्डुक २ श्चाऽथ, पिङ्गलः ३ सर्वरत्नकः ४ । महापद्म ५ काल ६-महाकालौ ७ माणव ८-शङ्खकौ ९ ॥१॥' इति किं विशिष्टा ? इत्याहुः-अष्टसु चक्रेषु प्रतिष्ठाऽवस्थानं येषां ते अष्टचक्राप्रतिष्ठाः । सूत्रे प्राकृतत्वात् 'चक्र' शब्दस्य पूर्वनिपातः । तथा अष्टयोजनोच्चाः, तथा यथाक्रमं द्वादशनवयोजनदीर्घविस्तीर्णाः, अयमर्थ:-द्वादशयोजनानि दीर्घाः नवयोजनानि विस्तीर्णाः । तथा निधिभिः समाननामानः-सदृशाभिधानाः सुरा अधिष्ठायकाः येषां ते निधिसनामसुराः तथा चोक्तं'पुर १ कण २ भूसण ३ रयणाण ४ वत्थ ५ सिप्पा ६ गराण ७ सत्थाणं ८ ॥ नायड ९ उप्पत्ति कमा सनामसुरऽधिट्ठियनिहीसु ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004154
Book TitleNeminath Stotra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy