________________
परिशिष्ट - 'क'. २७७ वर्तमाना अधोलोकवासिन्य: दिक्कुमार्य आगत्य संवर्तकवायुविकुर्वणेनाऽऽयोजनं भूमिशुद्धिं कृत्वा श्रीजिनपुरो गायन्ति तिष्ठन्ति तथा त्वं मा कार्षीः भयं मातरित्युक्त्वेशानदिश्रितं प्राङ्मुखं सूतिवेश्मैतास्तन्वन्ति स्तम्भसहस्रमत् । तथा नन्दनवनस्था उर्ध्वलोकवासिन्यः दिक्कुमार्यो मेघं विकाऽऽयोजनं यावत् गन्धोदकवृष्ट्या रेणुमुपशाम्य पञ्चवर्णपुष्पवृष्टिं जानुप्रमाणां विरच्य समातरं जिनं नत्वा गायन्ति तिष्ठन्ति । तथा रुचकनाम्नि त्रयोदशे द्वीपे रुचकपर्वतोऽस्ति तत्रैव रुचकपर्वते पूर्वादिषु चतसृषु दिक्षु वासिन्यः प्रतिदिग्भ्योऽष्टावष्टौ दिक्कुमार्य आगत्य समातरं जिनं नत्वा यथासङ्ख्यं आदर्श-भृङ्गार-तालवृन्त-चामरहस्ताः जिनगुणान् गायन्त्यः तिष्ठन्ति । तथा विदिक्षु रुचकगिरिवासिन्यश्चतस्रो दिक्कुमार्यो नत्वा समातुर्जिनस्य चतसृष्वपि दिक्षु दीपिकाहस्तगता भक्त्या जिनगुणान् गायन्त्यस्तिष्ठन्ति । रुचकद्वीपमध्ये वासिन्यश्चतस्रः दिक्षु दिक्कु मार्य: तथैवाऽऽगत्य भगवतश्चत्वारि अङ्गलानि वर्जयित्वा नाभिनालं छित्वा विवरं चख्नुस्तत्र तं चिक्षिपुः । तच्च वैडूरापूर्य रत्नपीठबन्धं दूर्वारोपणं च कृत्वा जन्मगेहाद्रम्भागृहत्रयं पूर्वदक्षिणोत्तराशासु व्यधुः । तेषु दक्षिणे रम्भागृहे समातुर्भगवतः शतपाकादिभिस्तैलैरभ्यगाद्वर्तनेन, ततः पूर्वे कदलीगृहे स्नपनपूर्व गोशीर्षचन्दनेन विलेपनं देवदूष्यपरिधापनं सर्वालङ्कारैविभूषां च कुवन्ति, ततः उत्तरे रम्भागारे रक्षापोट्टलिकाबन्धं कुवन्ति ततो भगवतः कर्णमूले दृषद्युग्मस्य वादनं 'पर्वतायुर्भव' इत्याशीर्वचो भक्तिक्रमेण दत्वा समातुर्जिनस्य पुरतो गुणगान-परास्तिष्ठन्ति । तथा चागमः'अहलोग-उद्धलोगा पुव्वाई रुयगवासिणीओ य । अट्ठट्ठ विदिसि चउरो मज्झिम रुयगाउ चत्तारि ॥१॥ संवट्ट-मेह-आयंसगा-भिंगार-तालयंटा य । चामर-जूई-रक्खं करंति एयं कुमारीओ ॥२॥ [आवश्यकनियुक्ति-१८७-१८८] इति दसकप्पिदा वीसं भवणवई सामिणा रवि-ससी दो। बत्तीस वितरिंदा चउसट्ठि करंति जिणन्हवणं ॥३॥' .. ते मेरुगिरौ जन्ममहिमानं सर्वा कुर्वन्तीति गाथार्थः ॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org