________________
परिशिष्ट - 'क' . २७९ चक्कट्ठपइट्ठाणा अट्ठसेहा नव य विक्खंभे । बारस दीहा मंजूससंठिया जन्हवीयमुहे ॥२॥' [स्थानाङ्गसूत्र-१२१] इति गाथार्थः ॥१७॥
जक्ख सहस्सा सोलस तदुगुणा मुउडमद्ध नरवइणो । तद्दगुणा रमणीओ, आणाणुगया तुह अहेसि ॥१८॥
यक्षाणां सहस्राः षोडश ते च द्वयोः स्कन्धयोश्चतुर्दशरत्नानां प्रत्येक सहस्रमधिष्ठातारो ज्ञेयाः । तेभ्यो द्विगुणाः द्वात्रिंशत्सहस्राः मुकुटबद्धनरपतयः । तेभ्यो द्विगुणाश्चतुःषष्टि सहस्रा रमण्यः आज्ञामनुगता-आज्ञाकारिणस्तवासन्निति गाथार्थः ॥१८॥
छन्नउइकोडीओ पायक्काण तह पवरगामाण । हय-गय-रहाण लक्खा पत्तेयं तुज्झ चुलसीई ॥१९॥
षण्णवतिकोट्यः पदातीनां । तथा षण्णवति कोट्यः प्रवरग्रामाणां अत्र करादिगम्यो ग्रामः वृत्या वृत्तो वा । तथा हय-गय-रथानां प्रत्येकं तव चतुरशीतिर्लक्ष आसन्नित्यध्याहार इति गाथार्थः ॥१९॥
बत्तीसबद्धनायड बत्तीससहस्सअभिणइज्जातो । तावइयजणवइपहू, अकासि नासियभयं भरहं ॥२०॥
द्वात्रिंशता पात्रैर्वरतरुणिभिर्बद्धानि-निष्पादितानि द्वात्रिंशद्भक्तिनिबद्धानीति वा यानि नाटकानि, तेषां द्वात्रिंशता सहस्रैरभिनीयमानो-अभिनयैः सेव्यमान, अभिनयविशिष्टैः नाटकैः सेव्यमान इत्यर्थः । तथा तावतांद्वात्रिंशत्सहस्राणां जनपदानां-देशानां प्रभुः त्वमिति शेषः । नाशितमपनीतं भयं यस्मात् तानि नासितभयं भरतं-भरतक्षेत्रमकार्षीरिति गाथार्थः ॥२०॥
कमसो चउदस-सोलस-वीसा-बावत्तरीय-नवनउई । संवाह-खडगा-गर-पुरवर-दोणमुह सहस्सा ते ॥२१॥ आसी तुह पत्तेयं मडंब-कव्वड सहस्स चउवीसा । दुगुणाणि पट्टणाणि य चउदसरयणेसर जिणेस ॥२२॥ युग्मम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org