________________
२८० • श्रीनेमिनाथस्तोत्रसङ्ग्रहः । क्रमशोऽनुक्रमेण चतुर्दश-षोडश-विंशतिः-द्वासप्तति-नवनवतिः संवाहखेटकाऽऽकर-पुरवर-द्रोणमुखानां सहस्राः, ते तव आसन्नित्युत्तरेण सम्बन्धः । अयमर्थः-यत्र पर्वतादि दुर्गे लोका धान्यानि संवहन्ति स संवाहः तेषां चतुर्दशसहस्राः । धूलीयप्रकारं अद्रि-नदीभ्यां वेष्टितं वा खेटं तेषां षोडशसहस्राः । लवणाद्युत्पत्तिभूमिराकरः तेषां विंशतिः सहस्राः । पुरवराणां प्रधाननगराणां द्वासप्ततिः सहस्रा : । यत्र जलस्थलमार्गाभ्यां भाण्डान्यागच्छन्ति तत् द्रोणमुखं सिन्धुवेलावलयपरिगतं वा तेषां नवनवतिः सहस्रा इति ॥२१॥ ___आसंस्तव प्रत्येकं मडम्बकर्वटयोः सहस्राणि चतुर्विंशतिः, तत्र पञ्चशतैर्गामैर्युक्तं मडम्बं यद् वा यत्र योजनाभ्यन्तरे सवीता-ग्रामादि नाऽस्ति तन्मडम्ब, कुनगरं कर्वट पर्वतेन वेष्टितं वा कर्वटम् । तथा 'दुगुणानी'ति अष्टचत्वारिंशत्सहस्राणि पत्तनानि, अत्र पत्तनं द्वेधा जलपत्तनं स्थलपत्तनं च, तत्र जलेन यत्र भाण्डान्यागच्छन्ति तज्जलपत्तनं, यत्र तु स्थलेन तत् स्थलपत्तनं रत्नयोनिर्वा पत्तनम् । हे चतुर्दशरत्नेश्वर ! चतुर्दशसङ्ख्यानि रत्नानि प्रत्येकं यक्षसहस्राधिष्टितानि सेनापत्यादिनि तेषामीश्वरः प्रभुस्तत् सम्बोधनं तथा, हे जिनेशेति गाथार्थः ॥२२॥ अथ दीक्षाकल्याणकं प्रकटयन्ति
छप्पन्नमंतरोदग कुरज्जमेगुणपन्न मन्नं च । बहु विच्छडं छड्डिय चक्कसिरिं निवसहस्सजुओ ॥२३॥ चरमवए जिट्ठाऽसियचउदसि अवरह्ने तंसि निक्खंतो। सहसंबवणे छटेण लद्धे सव्वट्ठसिबियाए ॥२४॥ युग्गम् ॥
षट्पञ्चाशतमन्तरोदकान् कुराज्यानि एकोनपञ्चाशत् अन्यं च बहुविच्छदोविस्तारो यस्या सा तया, तां चक्रिश्रियां-चक्रवर्तिलक्ष्मी 'छड्डिय'त्ति त्यक्त्वा नृपसहस्रयुतः ॥२३॥
चरमेऽन्तिमे वयसि ज्येष्टमासस्यासिता-कृष्णा चतुर्दशी, तस्यां अपराह्न चरमपौरुष्यां त्वमसि नि:क्रान्तो-गृहस्थधर्मान्निर्गत:-प्रव्रजितः, सहस्राम्रवने, षष्टेन तपसा, लष्टा-प्रधाना, सर्वार्थाभिधाना शिबिका तस्यां आरूढ इति शेष, इति गाथाद्वयार्थः ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org