Book Title: Neminath Stotra Sangraha
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 310
________________ परिशिष्ट - 'क' • २७३ साधुसोमगणीशेनाऽक्लेशेनार्थप्रबोधिनी । नाभेयचरिते चक्रे, वृत्तिश्चित्तप्रमोदिनी ॥१॥ २. श्रीशान्तिनाथचरित्रम् ॥ . अथ श्रीजिनवल्लभसूरिविरचिते चरित्रपञ्चके द्वितीयं श्रोतृजनजनितचित्रं पवित्रं श्रीशान्तिनाथचरित्रं विव्रियते । तस्य चेदं प्रथमगाथाद्वयं अप्पडिहयधम्मचक्केण, फारफुडफुरियनाणरयणेण । जेण सयलं पि भरहं पसाहियं साहियं च इमं ॥१॥ तं पणमिय सोलसमं तित्थयरं पंचमं चक्कहरं । तस्सेव किंचि सुचरियकणगुणणं किल करिस्सामि ॥२॥ युग्मम् ।। व्याख्या - तं प्रथमगाथोक्तं विशेषणोपेतं षोडशं तीर्थंकरं पञ्चमं चक्रधरं च-चक्रवर्तिनं च प्रणम्य-प्रकर्षेण नत्वा तस्यैव षोडशस्य तीर्थकृतः पञ्चमस्य चक्रवर्तिनः श्रीशान्तिनाथस्य, किञ्चित्-मनाक्, सुचरितकणस्य-सच्चरित्र लेशस्य, गुणनं-कीर्तनं, किल करिष्यामि । यद्यपि जडोऽहं तथापि करिस्ये इत्यर्थः । तं किं इति तच्छब्देनापेक्षितमर्थं यच्छब्देनाह-येन षोडशतीर्थङ्करेण पञ्चमचक्रधरेण च इदं प्रत्यक्षलक्षं भरतं-भरतक्षेत्रं प्रसाधितं-अलङ्कृतं, तथा साधितं-वशीकृतं च । पक्षद्वयेप्येक एवार्थः किं विशेष्टेन येनेत्याहअप्रतिहतधर्मचक्रेण अप्रतिहतमसंवलितं धर्मचक्रं यस्य तीर्थङ्करस्य पक्षो । अनिवारित धनुश्चक्रे यस्य चक्रवर्तिनः स तथा तेन, धर्मशब्दो धनुर्वाची । तथा चाहुः जिनदत्तसूरिपादाः श्रीगणधरसार्द्धशतके 'अविणासियजीवं ते धरति धम्म सुनिप्फन्नं । मुक्खस्स कारणं भयनिवारणं पत्तनिव्वाणं ॥१॥' [गणधरसार्ध०-९१] पुनः कथम्भूतेन ? स्फारस्फुटस्फुरितज्ञानरत्नेन स्फारं-दीप्रं, स्फुटं-प्रकटं, स्फुरितं-कृतप्रकाशं, ज्ञानरत्नं-केवलज्ञानं यस्य स तथा तेन । पक्षे स्फाराणि दीप्राणि-स्पष्टानि, स्फुटानि-प्रकटानि, स्फुरितानि-स्व-स्वकार्येऽप्रतिहतशक्तीनि, नाना-विविधानि, रत्नानि चक्रादीनि चतुर्दशसङ्ख्यानि यस्य स तथा तेन । उक्तं च Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360