________________
परिशिष्ट - 'क' • २७३ साधुसोमगणीशेनाऽक्लेशेनार्थप्रबोधिनी । नाभेयचरिते चक्रे, वृत्तिश्चित्तप्रमोदिनी ॥१॥
२. श्रीशान्तिनाथचरित्रम् ॥ . अथ श्रीजिनवल्लभसूरिविरचिते चरित्रपञ्चके द्वितीयं श्रोतृजनजनितचित्रं पवित्रं श्रीशान्तिनाथचरित्रं विव्रियते । तस्य चेदं प्रथमगाथाद्वयं
अप्पडिहयधम्मचक्केण, फारफुडफुरियनाणरयणेण । जेण सयलं पि भरहं पसाहियं साहियं च इमं ॥१॥ तं पणमिय सोलसमं तित्थयरं पंचमं चक्कहरं । तस्सेव किंचि सुचरियकणगुणणं किल करिस्सामि ॥२॥ युग्मम् ।।
व्याख्या - तं प्रथमगाथोक्तं विशेषणोपेतं षोडशं तीर्थंकरं पञ्चमं चक्रधरं च-चक्रवर्तिनं च प्रणम्य-प्रकर्षेण नत्वा तस्यैव षोडशस्य तीर्थकृतः पञ्चमस्य चक्रवर्तिनः श्रीशान्तिनाथस्य, किञ्चित्-मनाक्, सुचरितकणस्य-सच्चरित्र लेशस्य, गुणनं-कीर्तनं, किल करिष्यामि । यद्यपि जडोऽहं तथापि करिस्ये इत्यर्थः । तं किं इति तच्छब्देनापेक्षितमर्थं यच्छब्देनाह-येन षोडशतीर्थङ्करेण पञ्चमचक्रधरेण च इदं प्रत्यक्षलक्षं भरतं-भरतक्षेत्रं प्रसाधितं-अलङ्कृतं, तथा साधितं-वशीकृतं च । पक्षद्वयेप्येक एवार्थः किं विशेष्टेन येनेत्याहअप्रतिहतधर्मचक्रेण अप्रतिहतमसंवलितं धर्मचक्रं यस्य तीर्थङ्करस्य पक्षो । अनिवारित धनुश्चक्रे यस्य चक्रवर्तिनः स तथा तेन, धर्मशब्दो धनुर्वाची । तथा चाहुः जिनदत्तसूरिपादाः श्रीगणधरसार्द्धशतके
'अविणासियजीवं ते धरति धम्म सुनिप्फन्नं । मुक्खस्स कारणं भयनिवारणं पत्तनिव्वाणं ॥१॥' [गणधरसार्ध०-९१]
पुनः कथम्भूतेन ? स्फारस्फुटस्फुरितज्ञानरत्नेन स्फारं-दीप्रं, स्फुटं-प्रकटं, स्फुरितं-कृतप्रकाशं, ज्ञानरत्नं-केवलज्ञानं यस्य स तथा तेन । पक्षे स्फाराणि दीप्राणि-स्पष्टानि, स्फुटानि-प्रकटानि, स्फुरितानि-स्व-स्वकार्येऽप्रतिहतशक्तीनि, नाना-विविधानि, रत्नानि चक्रादीनि चतुर्दशसङ्ख्यानि यस्य स तथा तेन । उक्तं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org